SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ wwANA (१८) तत्त्वन्यायविभाकरे कर्मार्धनाराचम् । केवलकीलिकासदृशास्थिबद्धास्थिनिचयप्रयोजकं कर्म कीलिका । परस्परपृथस्थितिकानामस्थ्नां शिथिलसंश्लेषनिदानं कर्म सेवार्तम् । इति संहननपञ्चकम् ॥ नाभेरूज़ विस्तृतिबाहुल्यसल्लक्षणनिदानं कर्म न्यग्रोधपरिमण्डलम् । नाभ्यधोभागमात्रस्य प्रमाणलक्षणवत्त्वप्रयोजकं कर्म सादिः । सलक्षणपाण्यादिमत्त्वे सति निर्लक्षणवक्षःप्रभृतिमत्त्वप्रयोजकं कर्म कुब्जम् । एतद्वैपरीत्यहेतुः कर्म वामनम् । सर्वावयवाशुभत्वनिदानं कर्म हुण्डम् ।। इति पञ्चसंस्थानानि ॥ एते पापानुभवप्रकाराः ।। ___ पापबन्धहेतवस्तु प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहाप्रशस्तक्रोधमानमायालोभरागद्वे. षक्लेशाभ्याख्यानपिशुनतारत्यरतिपरपरिवादमायामृषावादमिथ्यात्वशल्यानि ॥ इति पापतत्त्वम् शुभाशुभकर्मग्रहणहेतुराश्रवः। पौद्गलिकोऽयम् । आत्मप्रदेशेषु कर्मप्रापिका क्रिया द्रव्याश्रवः । कर्मोपार्जननिदानाध्यवसायः भावाश्रवः ॥ स्पर्शविषयकरागद्वेषजन्याश्रवः स्पर्शेन्द्रियाश्रवः। रसविषयकरागद्वेषजन्याश्रवः रसनेन्द्रियाश्रवः ।
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy