SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आश्रवनिरूपणम् ( १९ ) गन्धविषयकरागद्वेषजन्याश्रवः घ्राणेन्द्रियाश्रवः । रूपविषयकरागद्वेषजन्याश्रवः चक्षुरिन्द्रियाश्रवः । शब्दविषयकरागद्वेषजन्याश्रवः श्रोत्रेन्द्रियाश्रवः । इतीन्द्रियपञ्चकाश्रवः ॥ प्रीत्यभावप्रयुक्ताश्रवः कोधाश्रवः । अनम्रताजन्याश्रवो मानाश्रवः । कापट्य प्रयुक्ताश्रवो मायाश्रवः । संतोष शून्यताप्रयुक्ताश्रवो लोभाश्रवः । इति कषायचतुष्काश्रवः ॥ प्रमादिकर्तृकप्राणवियोगजन्याश्रवो हिंसाश्रवः । अयथावद्वस्तुप्रवृत्तिजन्याश्रवोऽसत्याश्रवः । स्वाम्यवितीर्णपदार्थस्वायत्तीकरणजन्याश्रवः स्तेयाश्रवः । सति वेदोदये औदारिकवैक्रिय शरीरसंयो. गादिजन्याश्रवोऽब्रह्माश्रवः । द्रव्यादिविषयाभिकावाजन्याश्रवः परिग्रहाश्रवः । इत्यव्रतपञ्चकाश्रवः ॥ शरीरचेष्टाजन्याश्रवः कायाश्रवः । वाक्क्क्रयाजनिताश्रवो वागाश्रवः । मनश्चेष्टाजन्याश्रवो मन आश्रवः । इति योगत्रिकाश्रवः ॥ अनुपरतानुपयुक्तभेदभिन्ना कायजन्यचेष्टा कायिकी । संयोजननिर्वर्तनभेदभिन्ना नरकादिप्राप्तिहेतुर्विषशस्त्रादिद्रव्यजनिता चेष्टा अधिकरणिकी ।
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy