SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पापनिरूपणम् (१७ )) तिः। तिर्यग्गतौ बलान्नयनहेतुकं कर्म तिर्यगानुपूर्वी । इति तिर्यग्द्विकम् ॥ एकेन्द्रियव्यवहारहेतुः कमैकेन्द्रियजातिः। अस्यां स्पर्शेन्द्रियमेव । द्वीन्द्रियव्यवहारकारणं कर्म द्वीन्द्रियजातिः । स्पर्शरसने । त्रीन्द्रियव्यवहारसाधनं कर्म त्रीन्द्रियजातिः । स्पर्शरसनघाणानि । चतुरिन्द्रियव्यवहारनिदानं कर्म चतुरिन्द्रियजातिः । स्पर्शरसघ्राणचढूंषि ॥ - अप्रशस्नगमनप्रयोजकं कर्म कुखगतिः । यथा खरोष्ट्रादीनाम् । स्वावयवैरेव स्वपीडाजनननिदानं कर्मोपघातनाम । शरीरनिष्ठाप्रशस्तवर्णप्रयोजकं कर्माप्रशस्तवर्णनाम । यथा काकादीनाम् । शरीरनिष्ठाप्रशस्तगन्धप्रयोजकं कर्माप्रशस्तगन्धनाम । यथा लशुनादीनाम् । शरीरवृत्त्यप्रशस्तरसप्रयोजकं कर्माप्रशस्तरसनाम । यथा निम्बादीनाम् । शरीरवृत्त्यप्रशस्तस्पर्शप्रयोजकं कर्माप्रशस्तस्पर्शनाम । यथा बब्बुलादीनाम् । इत्यप्रशस्तवर्णचतुष्कम् ॥ 'उभयतो मर्कटबन्धाऽऽकलितास्थिसंचयवृत्तिपट्टबन्धसदृशास्थिप्रयोजकं कर्म ऋषभनाराचम् । उभयतो मर्कटबन्धमात्रसंवलितास्थिसंधिनिदानं कर्म नाराचम् । एकतो मर्कटबन्धविशिष्टास्थिसन्धिनिदानं
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy