SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पापनिरूपणम् (१५) स्य दृष्टमात्रेण परेषामुद्वेगजनकं कर्म दुर्भगनाम । अमनोहरस्वरवत्ताप्रयोजकं कर्म दुस्स्वरनाम । यथा खरोष्ट्रादीनाम् । उचितवक्तृत्वेऽप्यग्राह्यत्वादि प्रयोजकं कर्म अनादेयनाम । ज्ञानविज्ञानादियुतत्वेऽपि यशाकीर्त्यभावप्रयोजकं कर्मायश-कीर्तिनाम । इति स्थावरदशकम् ॥ - नारकत्वपर्यायपरिणतिप्रयोजकं कर्म नरकगतिः । आयुःपूर्णतां यावन्नरकस्थितिहेतुः कर्म नरकायुः । बलान्नरकनयनानुगुणं कर्म नरकानुपूर्वी । इति निरयत्रिकम् ॥ __अनन्तानुबन्धिनश्चानंतसंसारमूलनिदानमिथ्यात्वहेतुका अनन्तभवानुबन्धस्वभावा आजन्मभाविनो नरकगतिप्रदायिनः सम्यक्त्वघातिनः ॥ एवंभूतं प्रीत्यभावोत्पादकं कर्मानन्तानुबन्धिक्रोधः। तादृशं नम्रताविरहप्रयोजकं कर्म अनन्तानुबन्धिमानः । ईट्टक् सरलताऽभावप्रयोजकं कर्म अनन्तानुबन्धिमाया। ईदृशं द्रव्यादिमूर्छाहेतुः कर्म अनन्तानुबन्धिलोभः॥ प्रत्याख्यानावरणभूता वर्षावधिभाविनस्तिर्यग्गतिदायिनो देशविरतिघातिनश्चाप्रत्याख्यानाः ।
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy