________________
(१४)
तत्त्वन्यायविभाकरे चैतन्याविस्पष्टतापादकं सुखप्रबोधयोग्यावस्थाजनकं कर्म निद्रा । चैतन्यस्याविस्पष्टतापादक दुःखप्रबोध्यावस्थाहेतुः कर्म निद्रानिद्रा । उपविष्टस्योत्थितस्य वा चैतन्याविस्पष्टतापादकं कर्म प्रचला। चंक्रममाणस्य चैतन्याविस्पष्टतापादकं कर्म प्रचलाप्रचला। जागृदवस्थाध्यवसितार्थसाधनविषयस्वापावस्थाप्रयोजकं कर्म स्त्यानर्द्धिः । इति दर्शनलब्ध्यावारकं निद्रापश्चकम् ॥
नीचकुलजन्मनिदानं तिरस्कारोत्पादकं कर्म नीचैर्गोत्रम् । दुःखविशेषोपलब्धिकारणं कर्म असातावेदनीयम् । तत्त्वार्थश्रद्धाप्रतिबंधकं कर्म मिथ्यात्व मोहनीयम् ॥
प्रातिकूल्येऽपि स्थानान्तरगमनाभावप्रयोजक कर्म स्थावरनाम। सूक्ष्मपृथिव्यादिकायेषूत्पत्तिनिदानं कर्म सूक्ष्मनाम। यथा सर्वलोकवर्तिनां निगोदादीनाम् । एकेन्द्रियादीनां यथास्वं श्वासोच्छासादिपर्याप्त्यपरिपूर्णताप्रयोजकं कर्मापर्याप्तनाम । यथा लब्ध्यपर्याप्तानाम् । अनन्तजीवानामेकशरीरवत्त्वनिदानं कर्म साधारणनाम । यथा कन्दादी प्रयोगशून्यकाले भ्रूजिहादीनां कम्पनहेतुः कर्म अस्थिरनाम । नाभ्यधोवयवाशुभत्वप्रयोजकं कर्माशुभनाम । स्व