SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (१३) पापनिरूपणम् कवतिसकलद्रव्यपर्यायप्रदर्शकप्रत्यक्षज्ञानाऽऽवरणसाधनकर्म केवल ज्ञानाऽऽवरणम् । इति ज्ञानावरणीय पञ्चकम् ॥ ___सामग्रीसमवधानासमवधाने सति दानसाम Oभावप्रयोजकं कर्म दानान्तरायः । सम्यग्याचितेऽपि दातृसकाशादलाभप्रयोजकं कर्म लाभान्तरायः । अनुपहताङ्गस्यापि ससामग्रीकस्यापि भो. गासामर्थ्य हेतुः कर्म भोगान्तरायः । एकशो भोग्य भोगो यथा कुसुमादयः । अनुपहताङ्गस्यापि ससामग्रीकस्याप्युपभोगासामर्थ्य हेतुः कर्मोपभोगान्तरायः । अनेकशो भोग्यमुपभोगो यथा वनितादयः। पीनाङ्गस्यापि कार्यकाले सामर्थ्यविरहप्रयोजकं कर्म वीर्यान्तरायः । इत्यन्तरायपश्चकम् ॥ चक्षुषा सामान्यावगाहिबोधप्रतिरोधकं कर्म चक्षुर्दर्शनावरणम् । तद्भिन्नेन्द्रियेण मनसा च सामान्यावगाहिबोधप्रतिरोधकं कर्म अचक्षुदर्शनावरणम्। मूर्तद्रव्यविषयकप्रत्यक्षरूपसामान्यार्थग्रहणावरणहेतुः कर्म अवधिदर्शनावरणम् । समस्तलोकालोकवर्तिमूर्तामूर्तद्रव्यविषयकगुणभूतविशेषकसामान्यरूपप्रत्यक्षप्रतिरोधकं कर्म केवलदर्शनावरणम् । इति दर्शनावरणचतुष्कम् , दर्शनलब्धिप्रतिबंधकम्।।
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy