________________
(१२)
तत्त्वन्यायविभाकरे अष्टमहाप्रातिहार्याद्यतिशयप्रादुर्भवननिमित्तं कर्म तीर्थकरनाम ॥ ___ पुण्यमिदं कार्यकारणभेदेन द्विविधम् । एतानि कर्माणि कार्यरूपाणि जीवानुभवप्रकाराणि । एतेषां हेतवस्तु सुपात्रेभ्योऽन्ननिरवद्यवसतिवासोजलसंस्तारकादीनां प्रदानम् । मनसश्शुभसंकल्पः । वाकाययोश्शुभव्यापारः। जिनेश्वरप्रभृतीनां नमनादय इति दिक् ॥
इति पुण्यतत्त्वम्
दुःखोत्पत्तिप्रयोजकं कर्म पापम् । पौद्गलिकमतत् । इदमेव द्रव्यपापमुच्यते । द्रव्यपापनामककर्मोत्पत्तिकारणात्माशुभाध्यवसायो भावपापम् ॥
इन्द्रियानिन्द्रियजन्याभिलापनिरपेक्षबोधाऽऽवरणकारणं कर्म मतिज्ञानावरणम् । मतिज्ञानसा. पेक्षशब्दसंस्पृष्टार्थग्रहणाऽऽवरणकारणं कर्म श्रुतज्ञानाऽऽवरणम् । इन्द्रियानिन्द्रियनिरपेक्षमूर्तद्रव्य विषयप्रत्यक्षज्ञानाऽऽवरणनिदानं कर्मावधिज्ञानाऽऽवरणम् । इन्द्रियानिन्द्रियनिरपेक्षसंज्ञिपश्चेन्द्रियमनोगतभावज्ञापकात्मप्रत्यक्षज्ञानाऽऽवरणसाधनं कर्म मनःपर्यवाऽऽवरणम् । मनइन्द्रियनिरपेक्षलोकालो