SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ (१०२) __ तत्त्वन्यायविभाकरे व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपापाकाय च गुरुकुलवासो ब्रह्मचर्यम् ।। सनियमं शरीरवाङ्मनोनिग्रहस्संयमः । स च सप्तदशविधः पृथिव्यप्तेजोवायुवनस्पतिकायद्वित्रि. चतुःपञ्चेन्द्रियप्रेक्ष्योपेक्ष्यापहृत्यप्रमृज्यकायवाङ्मन - उपकरणसंयमभेदात् ॥ तत्र पृथिवीकायिकादारभ्य पश्चेन्द्रियं यावद्ये नवविधा जीवाः तेषां करणत्रयैः कृतकारितानुमतिभिः संघट्टपरितापव्यापत्तिपरिहारः पृथिवीका. यादि संयमो नवविधो ज्ञेयः॥ स्थानादीन् विलोक्य क्रियाचरणं प्रेक्ष्यसंयमः। साधुप्रभृतीन् प्रवचनोदितक्रियासु व्यापारयतः स्वस्वक्रियासु व्यापारवतः गृहस्थादीनुपेक्षमाणस्य संयम उपेक्ष्यसंयमः ॥ चरणानुपकारकवस्तुनिग्रहो विधिना च प्राणिसंसक्तभक्तपानादिपरित्यजनमपहृत्यसंयमः ॥ दृषिदृष्टस्थण्डिलवस्त्रादीनां विशिष्टप्रदेशगमने रजोऽवगुण्ठितपादादीनाश्च रजोहरणादिना प्रमार्जनं प्रमृज्यसंयमः॥ धावनादिदुष्टक्रियानिवृत्तिशुभक्रियाप्रवृत्त्युभयरूपः कायसंयमः । हिंस्रपरुषादिनिवृत्तिशुभवा
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy