________________
यतिधर्मनिरूपणम् ( १०१) __क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि श्रमणधर्मा दश ।
सति सामर्थ्य सहनशीलता क्षमा । सापराधिन्यप्युपकारबुद्धिरवश्यंभावित्वमतिरपायेषु, क्रोधादिषु दुष्टफलकत्वज्ञानं, आत्मनिन्दाश्रवणेऽप्यविकृतमनस्कत्वं क्षमैवात्मधर्म इति बुद्धिश्च क्षमायामुपकारिका॥
गर्वपराङ्मुग्वस्य श्रेष्ठेष्वभ्युत्थानासनादिभिर्विनयाचरणं मार्दवम् । जातिरूपैश्वर्यकुलतपःश्रुतलाभवीर्येष्वहम्भावो मार्दवविरोधी। अतस्ततो निवर्तेत । - कालुष्यविरहश्शौचम् । तद् द्रव्यभावभेदाद्विधा । शास्त्रीयविधिना यतिजनशरीरगतमहावणादिक्षालनमाद्यम् । रजोहरणादिष्वपि ममताविरहो द्वितीयं, ममत्वमत्र मनःकालुष्यम् ॥
यथावस्थितार्थप्रतिपत्तिकरं स्वपरहितं वचः सत्यम् ॥
इन्द्रियदमनं संयमः । तपस्तु पूर्वमेवोक्तम् ।।
बाह्याभ्यन्तरोपधिशरीरानपानादिविषयकभावदोषपरित्यजनं त्यागः ॥
शरीरधर्मोपकरणादिषु मूर्छाराहित्यमाकिञ्चन्यम् ॥