SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभाकरे चरणकरणभेदेन द्विविधं सम्यक् चरणम् । व्रतश्रमणधर्मसंयमवैयावृत्यब्रह्मचर्यगुप्तिज्ञाना (800) दितपःक्रोधनिग्रहरूपेण नवविधोऽप्यवान्तरभेदतसप्ततिविधं चरणम् ॥ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरमणरूपाणि पञ्च व्रतानि ॥ प्रमादसहकारेण कायादिव्यापारजन्यद्रव्यभावात्मकप्राणव्यपरोपणं हिंसा तस्मात्सम्यग्ज्ञानश्रद्धान पूर्विका निवृत्तिः प्रथमं व्रतम् ॥ अतद्वति तत्प्रकारकमप्रियमपथ्यं वचनमनृतं तस्मात्तथा विरतिर्द्वितीयं व्रतम् । असत्यं चतुर्विधं भूतनिवाभूतोद्भावनार्थान्तरगर्हा भेदात् । आयं आत्मा पुण्यं पापं वा नास्तीत्यादिकम् । आत्मा सर्वगत इत्यादि द्वितीयम् । गव्यश्वत्ववचनं तृतीयम् । क्षेत्रं कृष काणं प्रति काण इत्यादि वचनं तुर्यम् ॥ स्वाम्याद्यदत्तवस्तुपरिग्रहणं स्तेयं तस्मात्तथा विरतिस्तृतीयं व्रतम् ॥ औदारिकवैक्रियशरीरविलक्षणसंयोगादिजन्य विषयानुभवनमब्रह्म, तस्मात्तथा विरतिस्तुर्यं व्रतम् ॥ सचित्ताचित्तमिश्रेषु द्रव्येषु मूच्र्छा परिग्रहस्ततश्च तथा विरतिः पञ्चमं व्रतम् ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy