SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ (९८) तत्त्वन्यायविभाकरे च परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानवान् तदा समर्थश्चेत्प्रतिवादी वादिप्रतिवादिरूपाङ्गद्वयमेवापेक्षितम् । असमर्थश्चेत् सभ्येन सहाङ्गत्रयमपेक्षितम् । केवली चेत्प्रतिवादी तदाऽङ्गद्वयमेव ।। ___ यदा क्षायोपशमिकज्ञानवान् परत्र तत्त्वनिर्णिनीषुर्वादी प्रतिवादी च जिगीषुस्तदा चत्वार्यानि, स्वात्मनि तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानवान् परत्र तत्त्वनिर्णिनीषुर्वा प्रतिवादी तदा असमर्थत्वेऽ ङ्गत्रयं समर्थत्वे च अङ्गद्वयं, केवली चेत्प्रतिवादी तदा अङ्गद्वयमपेक्षितम् ॥ यदा तु केवली वादी जिगीषुश्च प्रतिवादी तदा चत्वार्यङ्गानि, स्वात्मनि तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानवान्वा प्रतिवादी तदाऽङ्गद्वयमेवापेक्षितम् ।। जिगीषुस्वात्मतत्त्वनिर्णिनीष्वोः, स्वात्मतत्त्वनिर्णिनीषुजिगीष्वोः,स्वात्मतत्त्वनिर्णिनीष्वोरुभयोरुभयोश्च केवलिनोर्वादिप्रतिवादिभावासम्भवान्न वादः प्रवर्तते ॥ प्रथमं वादारम्भको वादी। तदनु तद्विरुद्धारम्भकः प्रतिवादी। एतौ स्वपरपक्षस्थापनप्रतिषेधौ प्रमाणतः कुर्वीयाताम् ॥ उभयसिद्धान्तपरिज्ञाता धारणावान् बहुश्रुतः
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy