SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ वादनिरूपणम् ( ९७ ) स्वीकृतधर्मस्थापनाय साधनदूषणवचनैस्तत्त्वसंस्थापनेच्छुः तत्त्वनिर्णिनीषुः । अयं स्वस्य संदेहादिसंभवे स्वात्मनि तत्त्वनिर्णयं यदेच्छति तदा स्वात्मनि तस्वनिर्णिनीषुर्भवति । परानुग्रहार्थं परस्मिन् तत्त्वनिर्णयं यच्छति तदा परात्मनि तत्त्वनिर्णिनीषुर्भवति ॥ स्वात्मनि तत्त्वनिर्णिनीषुः शिष्यसब्रह्मचारिसुहृदादयः । परस्मिन् तत्त्वनिर्णिनीषुश्च गुर्वादिः । अयं ज्ञानावरणीयकर्मणः क्षयोपशमात् समुत्पन्नमत्यादिज्ञानवान् केवलज्ञानवान् वा भवति । स्वात्मनि तत्त्वनिर्णिनीषुस्तु क्षायोपशमिकज्ञानवानेव । जिगीघुरप्येवमेव ॥ एवमेव प्रत्यारम्भकोऽपि विज्ञेयः ॥ तथा च आरम्भको जिगीषुः स्वात्मनि तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानवान् केवली चेति चतुर्विधः सम्पन्नः, एवं प्रत्यारम्भकोऽपि ॥ यदो भावपि जिगीषू, जिगीषुक्षायोपशमिकज्ञानिनौ, जिगीषुकेवलिनौ वा वादिप्रतिवादिनौ भवतः, तदा वादिप्रतिवादिसभ्य सभापतिरूपाणि चत्वार्यङ्गान्यपेक्षितानि | यदा स्वात्मनि तत्त्वनिर्णिनीषुर्वादी प्रतिवादी
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy