________________
कल्प
सूत्र
प्रत
सूत्रांक
[8]
गाथा
II-II
दीप अनुक्रम [0]
Jan Education re
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
.......... व्याख्यान [१]
मूलं [१] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
भविष्यन्ति ? इति ऋजुत्वात् खाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं महाभाग ! दुर्ष्यातं भवता, अहो ! अयुक्तमेतद्यतीनां इत्युक्ते च मिथ्यादुष्कृतं ददौ ॥ तथा वीरजिनयतीनां वक्रजडत्वेऽपि दृष्टान्तद्वयंतत्र केचिद्वरतीर्थसाधवो नटं नृत्यन्तं विलोक्य गुरुसमीपं आगता गुरुभिः दृष्टा निषिद्धाच नटावलोकनं प्रति, पुनरन्यदा नहीं नृत्यन्तीं विलोक्य आगता गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुर्बा पृष्टाश्च सत्यं प्रोचुः, गुरुभिरुपालम्भे च दत्ते संमुखं गुरूनेय उपालब्धवन्तः - यर्दस्माकं तदा नटनिषेधसमये नटीनिषेधोऽपि कुतो न कृतो ? भवतां एवं अयं दोषः अस्माभिः किं ज्ञायते ? इति प्रथमो दृष्टान्तः । तथा कश्चियवहारिसुतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां संमुखं जल्पनं न कर्त्तव्यं इति पितृवचनं वक्रतया मनसि दधार, अथैकदा सर्वेषु स्वजनेषु वहिर्गतेषु पुनः पुनः शिक्षयन्तं पितरं अद्य शिक्षयामीति विचिन्य कपाटं दत्त्वा स्थितः आगतेषु च पित्रादिषु द्वारोद्घाटनार्थ बहुशब्दकरणेऽपि न वक्ति न चोद्घाटयति, भित्त्युल्लङ्घनेन मध्ये प्रविष्टेन च पित्रा हसन् दृष्ट उपालब्धश्च कथयामास भवद्भिरेवोक्तं वृद्धानां उत्तरं न देयं इति द्वितीयः ॥ अर्थाजितादियतीनां ऋजुप्राज्ञस्वे दृष्टान्तः- यथा केचिदजितजिनयत्तयो नटं निरीक्ष्य चिरेणागता गुरुभिः पृष्टा यथास्थितं अकथयन् गुरुभिश्च निषिद्धाः अथ अन्यदा ते बहिर्गताः नदीं नृत्यन्तीं विलोक्य प्राज्ञत्वात् विचारयामासुः यदस्माकं रागहेतुत्वाद् गुरुभिर्नटनिरीक्षणं निषिद्धं तर्हि नदी तु अत्यन्तरागकारणत्वात् सर्वधा निषिद्धेवेति विचार्य नहीं नौलोकितवन्तः ॥ ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्रा
For File & Fersonal Use Only
~27~
Kijaliay.g