________________
कल्प
सूत्र
प्रत
सूत्रांक
[3]
गाथा
II-II
दीप अनुक्रम [0]
कल्प. सुवोव्या० १
118 11
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
.......... व्याख्यान [१]
मूलं [१] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
सुविसुज्झो सुहणुपालो अ ॥ १ ॥ उज्जुजडा पुरिमा, खलु नडाइनायाड हुंति नायव्वा । वक्कज़डा पुण चरिमा उज्जुपण्णा मज्झिमा भणिया ॥ २ ॥ ] तथाहि - श्री ऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवयोघो दुर्लभो जडत्वात्, वीरतीर्थसाधूनां च धर्मस्य पालनं दुष्करं वक्रजडत्वात्, अजितादिजिनतीर्थसाधूनां तु धर्मस्य अवबोधः पालनं च द्वयं अपि सुकरं, ऋजुप्राज्ञत्वात् तेन आचारो द्विधा कृतः । अत्र च दृष्टान्ताः प्रदर्श्यन्तेयथा केचित् प्रथमजिनयतयो वहिर्भूमेर्गुरुसमीपं आगताः पृष्टाश्च गुरुभिः-भो मुनयो भवतां इयती बेला क जाता ?, तैरुक्तं स्वामिन्! वयं नटं नृत्यन्तं विलोकयितुं स्थिताः, ततो गुरुभिः कथितं इदं नटविलोकनं साधूनां न कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एवं साधवश्विरेण उपाश्रयं आगतास्तथैव गुरुभिः पृष्टाः प्रोचुः प्रभो ! वयं नदीं नृत्यन्तीं निरीक्षितुं स्थिताः, तदा गुरुभिरूचे भो महाभागास्तदानीं भवतां नटो निषिद्धो नटे निषिद्धे च नटी सुतरां निषिद्धैव ततस्तैर्विज्ञतं खामिन्! इदं अस्माभिर्न ज्ञातं अथैवं न करिष्यामः, अत्र च जडत्वान्नटे निषिद्धे नटी निषिद्धेवेति तैर्न ज्ञातं, ऋजुत्वाच सरलं उत्तरं दत्सं इति प्रथमः । अत्र द्वितीयोऽपि दृष्टान्तः- यथा कोऽपि कुङ्कुणदेशीयो वणिग वृद्धत्वे प्रव्रजितः स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो गुरुभिः पृष्टः- एतावद्दीर्घे कार्योत्सर्गे किं चिन्तितं ?, स प्रत्युवाच - स्वामिन् ! जीवदया चिन्तिता, कथमिति पुनर्गुरुभिः पृष्ट आह-पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकं उप्तानि धान्यानि बहून्यंभूवन् इदानीं मम पुत्रास्तु निश्चिन्ता यदि वृक्षनिपूदनं न करिष्यन्ति तदा धान्याभवनेन वराकाः कथं
For Plate & Fersonal Use Only
••• अत्र प्रथम अंतिम तथा मध्यवर्ती तीर्थकराणां कल्प भेदस्य कारणानि निर्दिश्यते
~26~
कल्पभेदकारणं
१५
२०
॥ ४ ॥
२५
8) janbrary.org