________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
सूत्रांक
[१२१] गाथा ||२..||
18 स्याबालगोपालं, प्रच्छन्नः किं दिवाकरः ॥२४॥ प्रकाशयति गुप्तं चेत्, संदेहं मे मनःस्थितम् । तदा जानामि
प्रथम सर्वज्ञमन्यथा तु न किंचन ॥ २५ ॥ चिंतयंतमिति प्रोचे, प्रभुः को जीवसंशयः । विभावयसि नो वेदपदार्थ || गणधरः शृणु तान्यध ॥ २६ ॥ समुद्रो मध्यमानः किं , गंगापूरोऽधवा किमु ? । आदिब्रह्मध्वनिः किंवा ?, वीरवेदध्व
निर्वभौ ॥ २७ ॥ वेदपदानि च-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्यसंज्ञाs-|| मस्ती 'ति, स्वं तावत् एतेषां पदानां अर्थं एवं करोषि-यत् विज्ञानघनो-गमनागमनादिचेष्ठावान् आत्मा एते
भ्यो भूतेभ्य:-पृथिव्यप्तेजोवाय्वाकाशेभ्यः,समुत्थाय-प्रकटीभूय . मांगेपु मदशक्तिरिव, ततस्तानि-भूतान्येव अनु विनश्यति-तत्रैव विलयं पाति जले वुवुद इव, ततो भूतांतिरिक्तस्य आत्मनोऽभावात् न प्रेत्यसंज्ञास्ति-मृत्वा पुनर्जन्म नास्तीति, पर अयुक्तोऽयमथैः, शृणु तावदेतेषां अर्थ-विज्ञानघन इति कोऽर्थ:-विज्ञा-18 नघनो-ज्ञानदर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्माऽपि विज्ञानघनः, प्रतिप्रदेश अनंतज्ञानपर्यायात्मक
वात्, स च विज्ञानघन:-उपयोगात्मक आत्मा, कथंचिद्भूतेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते-उत्पजायते इत्यथे।, घटादिज्ञानपरिणतो हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानपरिणामस्य घटादि-13
वस्तुसापेक्षत्वात् , एवं च एतेभ्यो भूतेभ्यो-घटादिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय-समुत्पद्य तान्येव ।
अनु विनश्यति, कोऽर्थः ?-तस्मिन् घटादौ वस्तुनि नष्टे व्यवहिते वा जीवोऽपि तदुपयोगरूपतया नश्यति अन्योINपयोगरूपतया उत्पद्यते.सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसंज्ञास्ति, कोऽर्थः ?-न प्राक्तनी घटायु-I
दीप अनुक्रम [१२६]
क.१.२०
~247~