________________
कल्प
सूत्र
प्रत
सूत्रांक
[१२१]
गाथा
||R..||
दीप
अनुक्रम [१२६]
कल्प. सुबो
व्या० ६
॥११५॥
Jan Education
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [१२१] / गाथा [२...]
........... व्याख्यान [६] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
पयोगरूपा संज्ञा अवतिष्ठते, वर्त्तमानोपयोगेन तस्या नाशितत्वादिति, अपरं च स वै अयं आत्मा ज्ञानमय इत्यादि, तथा ददद, कोऽर्थः ? -दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः, किं च विद्यमान भोक्तृकं इदं शरीरं, भोग्यत्वात्, ओदनादिवत् इत्याद्यनुमानेनापि, तथा क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे । चंद्रकांते सुधा यद्वत्, तथाऽऽत्माऽगगतः पृथक् ॥ १ ॥ एवं च प्रभुवचनैः छिन्नसंदेह: श्रीइंद्रभूतिः पंचशतपरिवारः प्रव्रजितः, तत्क्षणाच 'उपन्ने वा (१) विगमेइ वा ( २ ) धुवे वा (३) इति प्रभुवदनात्रिपदीं प्राप्य द्वादशांगीं रचितवान् । इति प्रथमगणधरः १ ॥
तं च प्रत्रजितं श्रुत्वा दध्यौ तबान्धवोऽपरः । अपि जातु द्रवेदद्रिर्हिमानी प्रज्वलेदपि ॥ १ ॥ वह्निः शीतः स्थिरो वायुः, संभवेन्न तु बांधवः । हारयेदिति पप्रच्छ, लोकानंश्रद्दधद् भृशम् ॥ २ ॥ ततश्च निश्चये जाते, चिंतयामास चेतसि । गत्वा जित्वा च तं धूर्त्त, वालयामि सहोदरम् ॥ ३ ॥ सोऽप्येवमागतः शीघ्रं, प्रभुणाऽऽभाषितस्तथा । संदेहं तस्य चित्तस्थं, व्यक्तीकृत्यावदद्विभुः ॥ ४ ॥ हे गौतमग्निभूते ! कः, संदेहस्तव कर्मण: ? । कथं वा वेदतत्त्वार्थं, विभावयसि न स्फुटम् ॥ ५ ॥ स चायं - पुरुष एवेदं ग्निं सर्व युद्धतं यच भाव्यं इत्यादि, तत्र 'ग्निं ' इति वाक्यालङ्कारे यद् भूतं अतीतकाले यच्च भाव्यं भाविकाले तत् सर्व इदं पुरुष एव - आत्मैव, एवकारः कर्मेश्वरादिनिषेधार्थः, अनेन वचनेन यन्नरामरतिर्यक्र पर्वतपृध्यादिकं वस्तु दृश्यते तत्सर्वं आत्मैव, ततः कर्मनिषेधः स्फुट एव, किंच-अमूर्त्तस्य आत्मनो मूर्त्तेन कर्मणा अनुग्रह उपघातश्च कथं भवति ?, यथा
For File & Personal Use Only
~248~
द्वितीय गणधर :
२०
२५ ॥११५॥ २८
Tirajnetbalyog