________________
आगम
(४५)
प्रत
सूत्रांक
[१४३
१४४]
गाथा
||११३
११५||
दीप
अनुक्रम
[२९३
२९७]
"अनुयोगद्वार"- चूलिकासूत्र - २ (मूलं + वृत्तिः)
मूलं [१४३-१४४] / गाथा [११३-११५]
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हरिभद्रसूरिजी - रचिता वृत्तिः:
श्रीअनु० हारि. वृत्तौ
॥१०१॥
शब्दविशेषेणानुभिन्वत इत्यध्याहारः, तत्कार्यत्वासितस्य, एवं शेपोदाहरणयोजनापि कार्येति । तथा कारणेन तंतवः पटकारणं (न) पट तंतुकारणमित्यनेनैतत् ज्ञापयति- कारणमेव कार्यानुमापकं नाकारणं, पटः तन्तूनां तत्कार्यत्वात्तस्य, आह-निपुणवियोजने तत एव तंतुभावास्पटोऽपि तन्तुकारणामिति, ननु तत्त्वनोपयोगित्वाभावात्तदभाव एव तन्तुभावादिति, न, नैव पटोत्पत्तौ सर्वथैव तन्त्यभावस्तेषामेव तथापरिणतिभावेनोपयोगात्, न चोद्यं पटपरिणाम एव तंतवः, तत्त्वेनोपयोगित्वाभावाद्भावे च पटभावेऽपि तंतुवत् पुनस्तंतुभावेऽपि पट उपलभ्येत न चोपलभ्यत इत्यतस्तंतवः पटकारणं, न पट: संतुकारणमिति स्थितं इदं च मेोन्नतिः वृष्टिकारणं चन्द्रोदयः समुद्रवृद्धेः कुमुदविकासस्य चेत्याद्युपलक्षणं वेदितव्यं गुणेन सुवर्ण निकपेण, तद्वतरूपातिशयेनान्ये, तद्गुणत्वाचस्य, एवं शेषोदाहरणयोजनाऽपि कार्या, अवयवेन सिंह दंष्ट्या तदवयवत्वात्तस्य, आह-तदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता १, उच्यते, व्यवधाने सत्यन्यतोऽनुमेयत्वाद्वा न दोषः एवं शेषोदाहरणयोजना कार्येति, नवरं मानुष्यादिकृतावयवोऽभ्यूझ इत्येके, अन्ये तु द्विपदमित्येवमादिकमेवावयवमभिदधति, मनुष्योऽयं तद्विनाभूत पदद्वयोपलभ्यन्यथानुपत्तेरिति, गोम्ही कर्णसृगाली, वयाऽऽभवेणानि धूमेन, अत्राश्रयतीत्याश्रयो धूमो यत्र गृह्यते, अयं चाग्निकार्यभूतोऽपि तदाश्रितत्वेन लोकरूडेर्भेदेनोक्त इति, शेषोदाहरणयोजना सुगमा, तदेतच्छेषवदिति । 'से किं तं दिट्टसाधम्म' मित्यादि, साधर्म्यवत् द्विविधं प्रज्ञप्तं, तद्यथा सामान्यदृष्टं च विशेषदृष्टं च तत्र सामान्यदृष्टुं यथा एकः पुरुषः तथा बहवः पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति विशेषदृष्टं तु पूर्वदृष्टपुरुषादि प्रत्यभिज्ञातं सामान्यधर्मादेव विशेषप्रतिपत्तेरित्यमुनाऽशेनानुमानसा, ' तस्स समासतो ' इत्यादि, तस्येति सामान्येनानुमानस्य समासतः संक्षेपेण त्रिविधं ग्रहणं भवति, तद्यथा अतीतका ग्रहणमित्यादि, ग्रहणं परिच्छेदः, तत्राती तका ग्रहणं उद्भततृणादीनि दृष्ट्राऽनेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा सुदृष्टिरासीदिति, प्रत्युत्पन्नकाळग्रहणं तु साधुं गोचरागतं भिक्षां
~105~
~
अनुमान प्रमाणं
॥१०१॥