________________
आगम
(४४)
प्रत
सूत्रांक
[४१]
गाथा
||..||
दीप
अनुक्रम [१३४]
A
“नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः)
मूलं [४१] / गाथा || ८१...||
नन्दी
॥ ८१ ॥
व स्थापनादिद्वारेण पूर्जार्हत्वादर्हन्तो भवन्त्येव, अतो- भगवद्भिः, भगः खलु समत्रैश्वर्यादिलक्षणः, यथोक्तं- "ऐश्वर्यस्य समग्रस्य, हारिभूद्रीयः- ॐ रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतींगना ||१||" भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, न चानादिवृत्तौ शुद्धानां समग्र रूपमुपपद्यते, अशरीरित्वात्, शरीरस्य च रागादिकार्यत्वात् तेषां च तदभावादिति, स्वेच्छा निर्माणतः समग्रशरीरसम्भवातुल्यतामेवाशंक्याह-उत्पन्नज्ञानदर्शनधरैः न च तेनादिशुद्धाः उत्पन्नज्ञानदर्शन धराः 'ज्ञानमप्रतिघं यस्येत्यादिवचनविरोधात् एवं शुद्धद्रव्यास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थोऽयं ग्रन्थः, अधुना पर्यायास्तिकन्यमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थमाह- 'त्रैलोक्यनिरीक्षितमहितपूजितैः' निरीक्षिताथ महिताच पूजिताश्वेति समासः, त्रैलोक्येन निरीक्षितमहितपूजिता इति विग्रहः, विशेषणसाफल्यं पुनरित्थमवसेयं त्रैलोक्यग्रहणाद्' भवनव्यन्तरनरविद्याधरज्योतिष्कवैमानिकपरिग्रहः, निरीक्षिता भक्तिनम्रैर्मनोरथदृष्टिभिर्दृष्टाः, महिता यथाऽवस्थितान्यासाधारणगुणोत्कीनलक्षणेन भावस्तवेन पूजिताः सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेनेति, तत्र सुगतादयोऽपि पर्यायास्तिकनयमतानुसारिभित्रैलोक्यनिरीक्षितमहितपूजिता इष्यन्त एव, आह च स्तुतिकार:"देवागमन भोयानचामरादिविभूतयः । मायाविध्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ||१||" इत्यादि, अत आह- 'अतीतप्रत्युत्पन्नानागतज्ञैः' न चैकान्तक्षणिकवादिनां यथोक्तविशेषणसम्भवः, अतीतानागताभावात्, तथा चागमः, "ण णिहाणगया भग्गा पुंजो णत्थि अणागते । णिब्बुमा णेव चिट्ठति आरग्गे सरिसोवमा || १ ||" असतां च ग्रहणायोगादित्याद्यत्र बहु वक्तव्यं, न च तद्दुच्यते, गमनिकामात्रत्वादस्य प्रारम्भस्य, व्यवहारनयमतानुसारिभिस्तु कैश्चिदतीतानागतार्थग्राहिण इष्यन्त एवं ऋषयः, यथाssहुरेके- "ऋषयः संयतात्मानः फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ।। १ ।। अतीतानागतान् भावान्,
मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः
~86~
सम्यक्क्षुतं
॥ ८१ ॥