________________
आगम
(४४)
प्रत
सूत्रांक
[३८]
गाथा
||७९
८०||
दीप
अनुक्रम
[१२६
१२९]
*3556%
“नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [३८] / गाथा ||७९-८०||
नन्दी- शृणोति नियमेन पराघाते सति यानि शब्दद्रव्याण्युत्सृष्टद्रव्याभिघाते वासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थ:, कुतः ?, हारिभद्रीय तेषां अनुश्रेणिगमनात् प्रतिषातामायाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते पदेऽपि पदावयवप्रयोगदर्शनाद्भीमसेनः वृत्ती सेनः सत्यभामा भामेति यथेति गाथार्थः ॥ साम्प्रतं विनेयगणसुखप्रतिपत्तये मतिज्ञानपर्यायशब्दानभिधित्सुराह11:04 11
ईहा०गाहा ।। (*८०-१८४) || ईहनमीहा, सदर्थपर्यालोचनचेष्टेत्यर्थः, अपोहनमपोहो, निश्रय इत्यर्थः, विमर्षणं विमर्षः, ईहा| पायमभ्यवर्त्ती प्रत्ययः, तथाऽन्वयधर्मान्वेषणा मार्गणा, चः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञाव्यंजनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मतिः कथंचिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरित्यर्थः तथा प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थित धर्मालोचनरूपा संविदिति भावना सर्वमिदमाभिनिवोधिकं मतिज्ञानमित्यर्थः एवं किंचिद्भेदाद्भेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एते पर्यायशब्दा इति गाथार्थः ॥ 'संत' मित्यादि, तदेतदाभिनियोधिकज्ञानमिति ॥ साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासयाह
'से किं तमित्यादि ॥ ३८-१८०) ।। अथ किं तत् श्रुतज्ञानं ?, श्रुतज्ञानमुपाधिभेदाच्चतुर्दशविधं प्रज्ञतं, तद्यथा- अक्षरतं १ अनक्षर २ संशितं ३ असंज्ञितं ४ सम्यक्क्षुतं ५ मिध्याश्रुतं ६ सादि ७ अनादि ८ सपर्यवसितं ९ अपर्यवसितं १० गमिकं ११ अगमिकं १२ अंगप्रविष्टं १३ अनंगप्रविष्टं १४, एतेषां च भेदानां स्वरूपं यथावसरं वक्ष्यामः । अक्षरश्रुतानक्षरश्रुतभेदद्वयान्त
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४], चूलिकासूत्र [१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ••• अथ परोक्षज्ञान-भेदे 'श्रुतज्ञान'स्य वर्णनं आरभ्यते, तदन्तर्गत् 'श्रुतस्य १४ भेदानां वर्णनं क्रियते
~80~
भाषाश्रुतिः मतिपयोयाथ
॥ ७९ ॥