________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
श्रीआव श्यकमल
यगिरिय
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ ८९१-८९२ ], वि० भा० गाथा [-] भाष्यं [१५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
शेषापेक्षयैव मा भूदविशिष्टो ग्रामस्ततो नोस्कन्धो नोग्राम इति वाक्यशेषो द्रष्टव्यः तथाहि सर्वास्तिकायमयः स्कन्धः, तदेकदेशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्कन्धापत्तेः, प्रतिजीवं स्कन्धत्वाभ्युपगमात्, अस्कन्धोऽपि न भवति, स्कन्धान्तर्वर्त्तित्वाद्, अन्यथा स्कन्धाभावप्रसङ्गात् प्रत्येक मस्कन्धत्वात्, अनभिलाप्योऽपि न भवति, वस्तुविवृत्तौ नम-शेषत्वात्, तस्मात् नोस्कन्धः, स्कन्धैकदेश इति भावः, स्कन्धदेशविशेषताद्योतको नोशब्दः, एवं नोग्रामोऽपि भावनीयः, स्कारे
॥ ४८८ ॥
नवरं ग्रामो नाम चतुर्दशभूतग्रामसमुदायः, स चतुर्द्दशभूतग्रामः पर्याप्तसूक्ष्मैकेन्द्रियादयः, यद् वक्ष्यति - "एगिंदिय सुहुमियरा सन्नियरपणिंदिया य सबितिचऊ । अपज्जत्ता पज्जत्ता भेदेण चउदसग्गामा ॥ ( प्रति सं. ) ॥ १ ॥” कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सामान्येनाशुद्धनयानां नैगमादीनां जीवोऽनुपयुक्तोऽपि तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, नमस्कारनमस्कारवतोरभेदोपचाराच्चैवं निर्देशः, सम्प्रति शब्दादिशुद्धनयमतमधिकृत्याह- 'तप्परिणतो' इति, जीव इति वर्त्तते, शब्दादिनयाः प्राहुः - जीवस्तत्परिणतो- नमस्कारपरिणत एव नमस्कारो भवति, नापरिणतः, उक्तं च- "तपरिणामोच्चिय ततो सद्दाईणं तथा नमोकारो । सेसाणमणुवउत्तो व लद्धिसहितोऽह्या जोगो ॥ १ ॥” एकत्वानेकत्वचिन्तायां तु नैगमस्य सामान्य ग्राहिणः सङ्ग्रहे विशेषग्राहिणो व्यवहारेऽन्तर्भावविवक्षणात् सङ्ग्रहादिभिरेव षड्विर्नयैर्विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्राक्षेपादेको नमस्कारः, व्यवहारस्य व्यवहारपरतया व्यक्तिभेदेन बहवो नमस्काराः, ऋजुसूत्रादयस्तु स्वकीय वर्त्तमानमात्राभ्युपगमपरतया प्रत्येकमेकमेव नमस्कारमिच्छन्ति, तमपि चोपयुक्तमिति, उक्तं च- "संगहनतो नमोकारजातिसामन्नतो सया एगं । इच्छइ बवहारो पुण एगमिगं बहू बहवो ॥ १ ॥ उज्जुसुयाईणं पुण जेण सयं संपयं च
Por Private & Personal Use Only
~98~
षट्पदायां किंद्वारं
॥ ४८८ ॥