SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] श्रीआव श्यकमलयगिरिय - वृत्ती नम स्कारे ॥ ४८५ ॥ आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [ ८८८ ], वि० भा० गाथा [-] भाष्यं [ १५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] “आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः | यथासम्भवं वाच्यं तथा पदस्यार्थः पदार्थः, स चास्य वाच्यः, तथा किमाद्यनुयोगद्वारैश्च प्रकर्षेण रूपणा प्ररूपणा, सा च दुविहा परूवणेत्यादि विधेया, तथा वसन्त्यस्मिन् गुणा इति वस्तु तत् नमस्कारार्थं वाच्यम्, आक्षेपणमाक्षेपः, आशङ्केत्यर्थः, सा चास्य कार्या, तथा प्रसिद्धिः- तत्परिहाररूपा वक्तव्या क्रमः - अर्हदाद्यभिधेयपरिपाटी, प्रयोजनम् - अर्हदादिक्रमस्य कारणं, अथवा येन प्रयुक्तो नमस्कारे प्रवर्त्तते तत् नमस्कारस्य प्रयोजनमपवर्गाख्यं वक्तव्यं, फलं - नमस्कारक्रियानन्तरभावि स्वर्गादिकं निरूपणीयं, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थ प्रतिपादयन्ति, नमस्कारः खल्वेभिद्वरैिश्चिन्तनीयः, | एष गाथासमुदायार्थः ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य प्रथमत उत्पत्तिद्वारनिरूपणार्थमाह उपन्नापन्नो इत्थ नयाऽऽइणेगमस्सऽणुपन्नो । सेसाणं उप्पन्नो जइ कत्तो ? तिविहसामित्ता ॥ ८८८ ॥ उत्पन्नश्चासावनुत्पन्नश्च उत्पन्नानुत्पन्नः ' मयूरव्यंसकादय ' इति विशेषणसमासः यथा कृताकृतं भुङ्कमभुङ्कमित्यादि, एवंप्रकारश्च समासः स्याद्वादिनामेव युक्तिमियर्त्ति, न शेषस्य एकान्तवादिनः, एकत्रैकदा परस्परविरुद्धधर्मानभ्युपगमात्, अथ स्याद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माध्यास इत्यत आह-'एत्थ नया' इति, अन्न उत्पत्त्यनुत्पत्तिविषये नयाः प्रवर्त्तन्ते, ते च नैगमादयः सप्त, नैगमो द्विभेदः - सर्वसङ्ग्राही देशसङ्ग्राही च तत्र सर्वसङ्ग्राहिणो नैगमस्य सामान्यमात्रावलस्थित्वात् सामान्यस्य चोत्पादव्यय रहितत्वात् नमस्कारस्यापि च तदन्तर्गतत्वादनुत्पन्नो नमस्कारः, शेषाणां देशसङ्ग्राहिनैगमप्रभृतीनां उत्पन्नः शेषा हि विशेषग्राहिणः विशेषाश्चोत्पादव्ययशून्यस्य वान्ध्येयादेरिवावस्तुत्वात्, नमस्कारश्चायं वस्त्विति विशेषत्वादुत्पन्न इति । आह- शेषा देशसङ्ग्राहिनैगमसङ्ग्रहादयः, सङ्ग्रहस्य च विशेषग्राहित्वं न विद्यते, ततः कथमुक्कं शेषा Por Private & Personal Use Only ~92~ उत्पत्तिद्वारं ॥ ४८५ ॥
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy