________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [८८५-८८६ ], वि० भा० गाथा [१००९-१०१०, २८०१ ] भाष्यं [ १५१...], मूलं [- / गाथा-], रत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
नुगमः
॥ ४८४ ॥
श्रीआवअल्पाक्षरं नाम मिताक्षरं यथा सामायिकसूत्रं, असन्दिग्धं यत् सैन्धवशब्दवत् लवणपटघोटकाद्यनेकार्थसंशयकारि न श्यकमल- भवति, सारवत् - बहुपर्यायं प्रतिमुखमनेकार्थाभिधायकं वा, विश्वतोमुखं-अनेकमुखं, प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, यगिरीय अस्तोभकं चवावैहहिकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभका निपाता इति पूर्ववैयाकरणेषु प्रसिद्धेः, अनवद्यम् - अगवृत्ती सूत्रार्ह्यमहिंसाप्रतिपादकं न 'पट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनात् न्यूनानि पशुभिस्त्रिभिः ॥ १ ॥ ' इत्यादिवचनमिव हिंसाभिधायकं, एवंभूतं सूत्रं सर्वज्ञभाषितमिति ॥ ततः सूत्रानुगमात् सपदच्छेदसूत्रोच्चारणरूपात् सूत्रेऽनुगते, किमुक्तं भवति ?, अनवद्यमिति निश्चिते सूत्रपद निक्षेपलक्षणः सूत्रालापकन्यासः प्रवर्त्तते, तदनन्तरं सूत्रस्पर्शि कनियुक्तिः चरमानुयोगद्वारा विहिता नयाश्च भवन्ति, समकं चैतत्प्रतिसूत्रमनुगच्छति, तथा चाह भाष्यकृत् सुत्तं सुत्तागमो सुत्ताला वगकतो य निक्खेवो। सुत्तष्फासियनिवृत्ति नया य समगं तु वच्चति ॥ १ ॥ (वि. २८०१) सूत्रानुगमादीनां त्वयं विषयविभागः सपदच्छेदं सूत्रमभिधाय भवति सूत्रानुगमोऽवसितप्रयोजनः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शिकनिर्युक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधाय तच्च प्रत्यवस्थानादि प्रायो नैगमादिनयमतविषयमतो वस्तुतस्तदन्तर्भाविन एव नया इति, न चैतत् स्वमनीपिकाविजृम्भितम्, यत आह भाय्यकारः - होइ कयस्थो वोतुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामादिन्नासविणिओगं ॥१॥ (वि.१००९) सुत्तष्फासिय निज्जुत्तिनियोगो सेसओ पयत्यादी । पायं सोचिय नेगमनयाइमयगोयरो होइ ॥ २॥ (वि. १०१० ) आह- यद्येवं क्रमस्ततः किमित्युत्क्रमेण निक्षेपद्वारे सूत्रालापकन्यासोऽभिहितः १, उच्यते, निक्षेपसामान्यात्, एवं हि
Por Private & Personal Use Only
~90~
सूत्रगुणाः विषयवि
भागाः
॥ ४८४ ॥