________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [१], नियुक्ति: [८४४], विभा गाथा [-], भाष्यं [१५०...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
यानं हस्त्यादि, आवरणं-कवचादि प्रहरणं-खड्गादि यानावरणप्रहरणानि, तथा युद्धे कुशलत्वं-सम्यक् तज्ज्ञता नीतिश्च| निर्गमप्रवेशरूपा दक्षत्वम्-आशुकारिता व्यवसायः-शौर्य शरीरमविकलम् अरोगता-व्याधिवियुक्तता, एतावद्गुणसामग्रीसमन्वित एव योधो जयश्रियमामोति, एष दृष्टान्तः, दार्टान्तिकयोजना त्वियम्-जीवो जोहो जाणं वयाणि आवरणमुत्तमा
खंती । झाणं पहरणमिट्ठ गीयत्थत्तं च कोसलं ॥ १॥ दवादिजहोवायाणुरूवपडिवत्तिवत्तिया नीई । दक्खत्तं किरियाणं, जं मकरणमहीण कालंमि ॥ २॥ करणं सहणं च तवोवसग्गदुग्गावतीए ववसातो। एएहिं सुणिरोगो कम्मरि जिणइ सोहि
॥३॥ कर्मरिपुविजयपक्षे जीवो योधो, महानतानि-प्राणातिपातविरमणादीनि यानम् , उत्तमा क्षान्तिरावरणं, ध्यान-धर्मध्यानमिष्टं प्रहरण, कौशलं सम्यग्गीतार्थता, द्रव्यादिषु-द्रव्यक्षेत्रकालभावेषु यथोपायं-श्रुतोक्तोपायानतिक्रमेण याऽनुरूप-14 प्रतिपत्तिवर्तिता, यथा साधूनामेतद् द्रव्यादि एतेनोपायेन देशकालाधुचितेन कर्त्तव्यं, नैतेनेति, सा नीतिः, तथा क्रियाणांप्रत्युपेक्षणवैयावृत्त्यादीनां यत् काले-स्वस्वप्रस्तावे अहीन-परिपूर्ण करणं तद् दक्षत्वं, तथा करणं तपसो द्वादशप्रभेदस्या उपलक्षणमेतत् संयमस्य च, सहनं च उपसर्गेपु समापतत्सु, यदिवा दुर्गापदि समागतायां, एष व्यवसायः, एभिर्यानादिभिः सहितो जीयो योधः मुनीरोगः कर्मरिपुं जयति, विजित्य च समग्रसामायिकश्रियमासादयतीति गाथार्थः ॥ अथवा अनेन प्रकारेणासाद्यते इति
दिढे सुयमणुभूए कम्माण खए कए उसमे य । मणवयणकायजोगे पसत्थे लम्भए बोही ॥ ८४४ ॥ दृष्टे भगवत्प्रतिमादौ सामायिकमवाप्यते, यथा स्वयंभूरमणसमुद्रमत्स्येन प्रतिमासंस्थितान् मत्स्यान् प्रतिमासंस्थितानि
दीप अनुक्रम
SmECIA
~33.