________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [२], नियुक्ति: [१०८८-१०९१], विभा गाथा H, भाष्यं [२०५...], मूलं [१...] / गाथा [२-४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
गाथा ॥२-४||
चाराभावात् , सति च व्यभिचारसम्भवे विशेषणोपादानं फलवत्, तथा चोक्त-"सम्भवे व्यभिचारे च विशेषणमर्थवद्
भवति', यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि न कंचनार्थ पुष्णाति, यथा कृष्णो भ्रमरः शुक्ला काबलाकेति, तस्मात् फेवठिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानात् , इह केवलिन एवं यथोक्तस्वरूपा अहेन्तो, नान्ये
इति नियमार्थेन स्वरूपज्ञापनार्थमिदं विशेषणमित्यनवयं, न खल्वेकान्ततो व्यभिचारसम्भवे एव विशेषणोपादानं फलवत्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपपरिज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात् , तत्र उभयपदव्यभिचारे यथा नीलोत्पलमिति, एकपदव्यभिचारे अन् द्रव्यं पृथिवी द्रव्यमिति, स्वरूपपरिज्ञापने यथा परमाणुरप्रदेश इत्यादि, तस्मात्केवलिन इत्यदुष्टं । आह-यद्येवं केवलिन इत्येव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्यादि किमर्थमिति, उच्यते, इह श्रुतकेवलिप्रभृतयोऽपि केवलिनो विद्यन्ते, तन्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्ध लोकस्योद्योतकरानित्याद्यप्युक्तं । एवं व्यादिसंयोगापेक्षया विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यमिति कृतं प्रसङ्गेन, प्रयासस्य गमनिकामात्रफलत्वात् ॥ सम्पति यदुक्तं 'कीर्तयिष्यामि' इति कीर्तनं कुर्वन्नाह सूत्रकृत्
उसभमजिअं च बंदे संभवमभिनंदणं च सुमई च । पउमप्पर सुपासं जिणं च चंदप्पहं वंदे ॥२॥
सुविहिं च पुप्फवंतं सीयल सिजंस वासुपुजं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च महिं बंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमि पासं तह वद्धमाणं च ॥४॥ (सूत्राणि) एतासां तिसृणामपि सूत्रगाथानां व्याख्या-इह भगवतामहेतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो बिशेपल
*SOLATAKAISLA ALEGRI
अनुक्रम [४-६]
... अथ तिर्थंकरस्य 'ऋषभ', अजित आदि नामानाम् व्याख्या: क्रियते
~319~