________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [२], नियुक्ति: [१०८८-१०९१], विभा गाथा [-], भाष्यं [२०५...], मूलं [१...] / गाथा [१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
गाथा
||१||
करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥१॥" लोकं पञ्चास्तिकायात्मकं जानन्ति विशेषरूपतया, तथैव | सम्पूर्णमेव, चशब्दस्यावधारणार्थत्वात् , पश्यन्ति सामान्यरूपतया, इह ज्ञानदर्शनयोः सम्पूर्णलोकविषयत्वे बहु वक्तव्यं, तत्तु नोच्यते, ग्रन्थविस्तरभयात् , केवलं 'निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वय ॥शा-1 मित्यनया दिशा स्वयमेवाभ्यूज़, धर्मसङ्ग्रहणीटीका च परिभावनीया, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यते इति केवलिनः इति व्युत्पत्तेः, अहोऽत्राकाण्ड एवं केवलचारित्रिण इति किमर्थमुक्तं', उच्यते, केवलचारित्रप्राप्तिपूर्विका नियमतः केवलज्ञानावाप्तिरिति न्यायदर्शनार्थमित्यदोषः । तदेवं व्याख्यातो || लोकस्येत्यादिरूपः सूत्रप्रथमश्लोकः ।। जा साम्प्रतमत्रैव चालनाप्रत्यवस्थाने विशेषतो निदर्येते, तत्र लोकस्योद्योतकरानिस्युक्तं, अत्राह-अशोभनमिदं यदुक्तं
लोकस्येति, लोको हि चतुर्दशरज्वात्मकत्वेन परिमितः, केवलोद्योतश्चापरिमितो,लोकालोकव्यापकत्वात् , यद्वक्ष्यति-'केव-18 लियनाणलंभो लोगालोग पगासेई ततः सामान्यतः उद्योतकरान् यदिवा लोकालोकयोरुद्योतकरानिति वाच्यं, नतु लोकस्थति, तदयुक्तं, अभिप्रायापरिज्ञानात्, इह लोकशब्देन पश्चास्तिकाया एवं गृह्यन्ते, ततः आकाशास्तिकायभेद एव लोक इति न पृथगुक्तः, नचेतदनार्ष, यत उक्तम्-"पंचस्थिकायमइओ लोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरानिति न वक्तव्यं, गतार्थत्वात् , तथाहि-ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, उच्यते, इह लोकैकदेशे ग्रामैकदेशे ग्रामशब्दवत् लोकशब्दप्रवृत्तिदर्शनात् मा भूत्तदुद्योतकरेष्ववधिविभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्यय
दीप अनुक्रम [३]
CRECRABAR
~317~