________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [२], नियुक्ति: [१०७९-१०८१], विभा गाथा [-], भाष्यं [२०५...], मूलं [१...] / गाथा [१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
गाथा
||१||
इह ज्ञशरीरभव्यशरीरव्यतिरिक्तं नोआगमतो द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-दाहोपशममिति, दाहो-बाह्यः सन्तापः तस्योपशमो यस्मिन् तद्दाहोपशमं 'तण्हावुच्छे(इछे)यण'ति | तृषः-पिपासायाः छेदनं जलसङ्घातेन तदपनयनात्, तथा मलो बाह्यः अङ्गसमुत्थस्तस्य प्रवाहणं, प्रवाह्यतेऽनेनेति प्रवाहणं, जलेन तस्य प्रक्षालनात , एवं त्रिभिरथैः कारणगतैर्निर्युक्तं निश्चयेन युक्तं निर्युकं-प्ररूपितं, यदिवा प्राकृतत्वात् सप्तम्यर्थे तृतीया, त्रिषु अर्थेषु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात् मागधादि द्रव्यतीर्थ, मोक्षसाधकत्वाभावात् ॥ सम्पति भावतीर्यमधिकृत्याहकोहम्मि उ निग्गहिए दाहस्सोवसमणं हवइ तत्थं । लोहम्मि उ निग्गहिए तण्हावुच्छेअणं होइ ॥ १०७९॥ अहविहं कम्मरयं यहुएहिं भवेहिं संचिअं जम्हा । तव-संजमेण धोवइ तम्हा तं भावओ तित्थं ॥ १०८०॥
इह भावतीर्थमपि आगमनोआगमभेदतोऽनेकप्रकारं, तत्र नोआगमतो भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोधे एव निगृहीते दाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति तथ्य-निरुपचरितं, नान्यथा, तथा लोभ शाएव निगृहीते 'तण्हावुच्छेयणं होति'त्ति तृपः-अभिष्वंगलक्षणायाः छेदन-व्यपगमो भवति, तथा अष्टविध अष्टप्रकार कर्मैव जीवानुरंजनात् कर्मरजः बहुभिर्भवैः सश्चितं तपःसंयमेन धाव्यते-शोध्यते यस्मात् तस्मात् प्रवचनं भावतीर्थम् ।।
दसणनाणचरित्तेसु निउत्तं जिणवरेहिं सोहिं । एएण होइ तित्थं एसो अन्नोऽवि पज्जाओ ॥१०८१॥ दर्शनज्ञानचारित्रेषु नियुक्त-नियोजितं सर्वैः ऋषभादिभिर्जिनवरैः-तीर्थकृद्भिः, यस्मादित्थंभूतेषु नियुक्कं तस्मात्
दीप अनुक्रम [३]
~313