________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०४८], विभा गाथा , भाष्यं [१८५...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१]
दीप अनुक्रम
तथाहि-अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः, तदन्यत्वात् , मिथ्यादृष्टेरिय, अनन्यत्वे तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्गः, अनिष्टं चैतत् , तस्यानादिमत्त्वाभ्युपगमात् , एष आक्षेपः-चालना । इत्थं चालनाम-12 भिधाय साम्प्रतं प्रत्यवस्थानमाहआया हु कारओ मे सामाइअ कम्म करणमाया य । परिणामे सइ आया सामाइअमेव उ पसिद्धी॥१०४८MA
इह ममात्मैव कारको मतः, तस्य स्वातन्येण प्रवृत्तेः, तथा सामायिक कर्म, तद्गुणत्वात्, करणमपि चोदे-15 शादिलक्षणं तद्रूपत्वादात्मैच, तथापि यथोक्तदोषाणामसम्भवः, कुत इत्याह-यस्मात् परिणामे सति आत्मा सामायिक परिणमनं परिणामः कथञ्चित् पूर्वरूपापरित्यागेनोत्तररूपापत्तिः, उक्तं च-"नार्थान्तरगमो यस्मात् , सर्वथैव न चागमः।
परिणामः प्रमासिद्धः, इष्टश्च खलु पण्डितैः॥१॥" तस्मिन् परिणामे सति आत्मा सामायिकमुपपद्यते, तथाहि-परिणामे दसति तस्यात्मनो नित्यानित्याद्यनेकरूपता, अन्यथा परिणामित्वायोगात्, सा च नित्यानित्याद्य नेकरूपता द्रव्यगुणपर्या
याणां भेदाभेदसिद्धी, अन्यथा सकलव्यवहारोच्छेदप्रसङ्गात् , ततो नात्र कर्तृकर्मकरणानामेकाम्तेन अन्यत्वं, तद्गुणत्वात्, न खलु गुणगुणिनोरेकान्तेन भेदः, तथा सति विप्रकृष्टगुणमात्रोपलब्धौ प्रतिनियतगुणिविषयसंशयायोगात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद्, अथ च यदा कश्चिद्धरिततशाखाविसररन्धोदरान्तरतः किमपि शुक्त पश्यति तदा किमियं पताका किंवा बलाका ? इति दृश्यते प्रतिनियतगुणिविषयः संशयः, नाप्येकान्तेनानन्यत्वं, तद्गुणत्वादेव, नहि गुणगुणिनोरेकातेनानन्यत्वं, तद्गुणत्वादेव, नहि गुणगुणिनोरेकान्तेनाभेदोऽपि, तथा सति गुणग्रहणे सति गुणिविषयसंशयानुत्पत्तिरेव,
CARSCIENCECRECR
[२]
ANCCCCRAK
न स्टा
~273