________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२७], विभा गाथा -1, भाष्यं [१५१...], मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
RASIS
सूत्रांक
[१]
दीप अनुक्रम [२]
यावज्जीवा तया, त्रिविधमिति तिम्रो विधा यस्य सावद्ययोगस्य स त्रिविधः, स च प्रत्याख्येयत्वेन कर्म सम्पद्यते, कर्मणि
च द्वितीया विभक्तिः, अतस्तं त्रिविधं मनोवाकायच्यापारलक्षणं कायवाङ्मनःकर्म योग' ( तत्त्वा अ. ६ सू १) इति वचजानात् , 'त्रिविधेने ति करणे तृतीया, मनसा वाचा कायेन, तत्र 'बुधी मनी ज्ञाने' मननं मन्यते वाऽनेनेति मनः, औणादिद कोऽस्प्रत्ययः, तच्चतुर्द्धा, नामस्थापनाद्रव्यभावभेदात् , नामस्थापने सुगमे, द्रव्यमनो ज्ञशरीरभव्यशरीरव्यतिरिक्तं
तद्योग्यपुद्गलमयं, भावमनो मंता जीव एव, 'वच परिभाषणे वचनं उच्यते इति वाक्, सापि चतुर्विधा नामस्थापनाद्रव्यभावमेदात्, तत्र नामस्थापने सुगमे, द्रव्यवाक् ज्ञशरीरभव्यशरीरव्यतिरिका शब्दपरिणामयोग्याः जीवपरिगृहीताः १ भाववाक् पुनस्त एव पुद्गलाः शब्दपरिणाममापना, तथा 'चिञ् चयने' चयनं चीयते वा कायः 'चित्युपसमाधानावसथदेहे कश्चादि' रिति घञ्, चकारात् ककारः, पुद्गलानां चयात् पुद्गलानामेवावयवरूपतया समाधानात् जीवस्य निवा|सात् प्रतिक्षणं केषाश्चित्पुद्गलानां क्षरणात् कायः-शरीरं, सोऽपि नामस्थापनाद्रव्यभावभेदाचतुर्धा, तत्र नामस्थापने प्रतीते, द्रव्यकायो ज्ञशरीरभव्यशरीरव्यतिरिक्तः शरीरत्वयोग्या अगृहीतास्तत्स्वामिना वा जीवेन मुक्ता यावत् तं परिणाम न मुश्चति तावद् द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसंयुक्ताश्च पुद्गलाः, अनेन त्रिविधेन करणेन त्रिविध पूर्वाधिकृतं सावध योगं न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-न अनुमन्येऽहमिति, तस्य-1 | त्यधिकृतस्य सावद्ययोगस्य (भयान्त इति पूर्ववत् ) प्रतिक्रमामि-निवः निन्दामि-जुगुप्से, गहें इति स एवार्थः, किन्तु | आत्मसाक्षिकी निन्दा गुरुसाक्षिकी गहेंति, किं जुगुप्से इत्यत आह-आत्मानम्-अतीतसावद्ययोगकारिणं, व्युत्सृजामि-वि
*KAESARIAISAGRICE
~2350