________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [९९४-९९५], विभा गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
सिद्ध
सुत्राक
श्यकमलयगिरीयवत्तीनम-
स्कारे
॥५४९॥
दीप अनुक्रम
व आचार्यः स एकभविकः, आचार्यभवयोग्यनिवद्धायुर्बद्धायुष्कः, आचार्यभवानुगते यस्य नामगोत्रे उदयाभिमुखे सोभिमुखनामगोत्रः, तथाविधो द्रव्याचार्यः मूलगुणनिर्मित उत्तरगुणनिर्मितच, तत्र मूलगुणनिर्मित आचार्यशरीरनिर्वर्त्तनयो-1 सौख्यं ग्यानि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारपरिणतानीति, अथवा द्रव्यभूतोऽप्रधान आचार्यों द्रव्याचार्यः, द्रव्यनिमित्तं वा य आचारवान् स द्रव्याचार्यः, भावाचार्यों द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः शिल्पशास्त्रादि, एत-| चैवमुच्यते तत्परिज्ञानात् तदभेदोपचारेण, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये तु लौकिकलोकोत्तरभेदमकृत्वा सामा-12 न्यत एनमपि द्रव्याचार्य ब्याचक्षते, यथा-शिल्पशास्त्रादिपरिज्ञाता, यथा शिल्पशास्त्रादिपरिज्ञाननिमित्तमाचार्यमाणो द्रव्याचार्य इति । अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयति
पंचविहं आयारं आयरमाणा तहा पगासंता । आयारं दंसंता आयरिया तेण बुचंति ॥ ९९४ ॥ पञ्चविध-पञ्चप्रकारं ज्ञानदर्शनचारित्रतपोवीर्यभेदात् , आचार-आइ मर्यादायां चरणं चारः मर्यादया-कालनियमादि-15 लक्षणया चार आचारः, उक्तं च-"काले विणए बहुमाणे उवहाणे"त्यादि, आचरन्तः सन्तोऽनुष्ठानरूपेण, तथा प्रभाषमाणा अर्थान्बाख्यानेन, तथा प्रत्युपेक्षणादिक्रियाद्वारेणाचारं दर्शयतः सन्तो मुमुक्षुभिराचर्यन्ते-सेव्यन्ते येन कारणेन आचार्यास्तेन कारणेनोच्यन्ते ॥ अमुमेवार्थ स्पष्टयन्नाह
आयारो नाणाई तस्सायरणा पभासणातो वा । जे ते भावायरिया भावायारोवउत्ता य ॥ ९९५ ।। आचारों-ज्ञानादिः पश्चप्रकारः तस्याचरणात् प्रभाषणात् वाशब्दाद् दर्शनाद्वा हेतोर्मुमुक्षुभिराचर्यम्तम्सेव्यन्ते ते
॥५४९॥
... अत्र 'आचार्य' शब्दस्य प्रतिपादनम् एव वर्तते, मूल संपादने प्रत पृष्ठ-५४९ से ५५२ पर्यन्त: यत् "सिद्ध-सौख्यं मुद्रितं तत् मुद्रणदोष: मात्र ज्ञातव्य:
~220