________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
श्रीआव
श्यकमल
यगिरीय वृत्तौ नमस्कारे
॥ ५३८ ॥
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ ९५५], वि० भा० गाथा [-] भाष्यं [ १५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] “आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
सम्प्रति समुद्घातगतस्य योगव्यापारश्चिन्त्यते - योगाश्च मनोवाक्कायाः, तत्रैषां कः कदा व्याप्रियते ?, तत्र काययोग एव समुद्घातः केवलो व्याप्रियते, न मनोवाग्योगव्यापारी, प्रयोजनाभावात् उक्तं च धर्मसारप्रकरणे - "मनोवचसी तु तदा न व्यापारयति, प्रयोजनाभावादिति, काययोगोऽपि प्रथमाष्टमसमययोरौदारिककाययोग एव द्वितीयपष्ठसप्तमसमयेषु पुनरौदारिके तस्माच्च बहिः कार्मणे बीर्यपरिस्पन्दादौदारिक कार्म्मणमिश्रः, त्रिचतुर्थपश्चमसमयेषु बहिरेवौदारिकाद्बहुतरव्यापार सद्भावात् कार्म्मणकाययोग एव, तम्मात्रचेष्टनादिति, तथा चोकमन्यत्रापि - "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रीदारिकयोक्ता सप्तमपष्ठद्वितीयेषु ॥ १ ॥ कार्म्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ २ ॥” इति कृतं प्रसङ्गेन भाषायोगनिरोध इति कोऽर्थः १, परित्यक्तसमुद्रघातः कारणवशात् योगत्रयमपि व्यापारयति तदर्थं मध्यवर्त्तिनं योगमाह - भाषेति कथं योगत्रयमपि व्यापारयतीति चेत्, उच्यते - अनुत्तरसुरपृष्टः सत्यमसत्यमृषा वा मनोयोगं प्रयुंक्ते, आमन्त्रणादौ सत्यमसत्यामृषा वाग्योगं, नेतरौ द्वौ भेदी द्वयोरपि वीतरागत्वात् सर्वज्ञत्वाच्च, काययोगमपि औदारिकं फलकप्रत्यर्पणादौ व्यापारयति, अन्तर्मुहूर्त्तमात्रे व कालशेषे भगवान् योगनिरोधं करोति, अत्र केचिद् व्याचक्षते - जघन्यत एतावता कालेन, उत्कर्षतस्तु पङ्गिर्मासैः, तदेतदयुक्तं, 'गत्वा समुद्धातं क्षपयन्ति कम्मं निरवशेष मिति वचनात्, अन्यच - प्रज्ञापनायां योगनिरोधानन्तरं पीठफलकादीनां प्रत्यर्पणमेवोक्तं, न त्वादानमपि, यदि पुनः पण्मासानपि यावद् भगवान् तिष्ठेत् तत आदानमपि वर्षाकालादी सम्भवतीति तदप्युच्येत, न चोकं, तस्मादपव्याख्यानमेतदिति । योगनिरोधप्रतिपादनं च द्विधा-सङ्क्षेपतो विस्तरतश्च,
Pur Private & Personal Use Only
~ 198~
॥ ५३८ ॥
brary.org