________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [९५५], विभा गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभागमध्ये प्रवेशनेन द्रष्टव्यः, पुनरप्येतस्मिन् समयेऽवशिष्टस्य स्थितेरसङ्ख्येयभागस्यानु-1 भागस्य चानन्तभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते, ततस्तृतीयसमये स्थितेरसमयेयान् भागान्| हन्ति, एक असंख्यातभागं मुश्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्तभागं मुंचति, अत्रापि प्रशस्तप्रकृत्यनु-1 भागघातोऽप्रशस्तप्रकृत्यनुभागमध्ये प्रवेशनेनावसेयः, ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसङ्घयेयभागस्य अनुभागस्य 8 चानन्ततमभागस्य बुद्ध्या यथाक्रममसङ्ख्येया अनन्ताश्च भागाः क्रियन्ते, ततश्चतुर्थे समये स्थितेरसझयेयान् भागान् हन्ति, |एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते, प्रशस्तप्रकृत्यनुभागघातः पूर्ववदवसेयः, एवं च स्थिति-| घातादि कुर्वतचतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः समयेयगुणा जाता, अनु-13 भागस्त्वद्याप्यनन्तगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसङ्ख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयो बुझ्या यथा-1 क्रममसङ्ख्येया अनन्ताश्च भागाः क्रियन्ते, ततोऽवकाशान्तरसंहारसमयेऽसङ्ग्येयान् भागान् हन्ति, एकं असङ्ख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् हन्ति, एक मुश्चति, एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिक कण्डकमुत्कीर्ण, समये २ स्थितिकण्डकानुभागकण्डकघातनात्, अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तमुहूर्तेन कालेन विनाशयति, पष्ठादिषु च समयेषु कण्डकस्य प्रतिसमयमेकैकं शकलं तावदुत्किरति यावदन्तर्मुहूर्तच
रमसमये सकलमपि तत्कण्डकमुत्कीर्णं भवति, एवमन्तर्मुहुर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च घातयन् तावद्वे131दितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसयेयान्यवगन्तव्यानि ॥
ACRELECCASIOSASCARD
अनुक्रम
~197