________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [८९७-८९८], विभा गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
सन्मत्त ८ नाण ९दसण १० संजय ११ उवओगओ १२ य आहारे १३।
भासग १४ परित्त १५ पज्जत्त १६ सुहुम १७ सन्नीय १८ भव १९ चरिमे २०॥ ८९७ ॥ सत्पदस्य-विद्यमानार्थस्य नमस्कारलक्षणस्य, सूत्रे च द्वितीया पछ्यर्थे वेदितव्या प्राकृतखात्, पूर्वप्रतिपन्नान् प्रतिपद्यमानकांश्चाश्रित्य मार्गणा-अन्वेषणा कर्तव्या, क्वेत्याह-गतिषु चतसृष्वपि, तद्यथा-नमस्कारः किमस्ति किं वा नास्तीति, तत्रास्तीति गमः, तथाहि-चतुष्प्रकारायामपि गतो नमस्कारस्य पूर्वप्रतिपन्ना नियमतः, प्रतिपद्यमानकास्तु विवक्षितकाले भाज्याः, कदाचिद् भवन्ति कदाचिन्नेति, एवमिन्द्रियादिषु चरमान्तेषु द्वारेषु यथा पीठिकायां मतिज्ञानस्य सत्पदनरूपणा कृता तथा नमस्कारस्यापि कर्तव्या, तयोरभिन्नस्वामिकत्वेनैकवक्तव्यत्वात् ॥ तदेवं गतं सत्पदप्ररूपणाद्वारम्, अधुना ! द्रव्यप्रमाणक्षेत्रस्पर्शनारूपं द्वारत्रयमभिधित्सुराहपलियासंखिज्जाइमो पडिकन्नो होज खित्त लोअस्स । सत्तसु चउदसभागेसु हुज्ज फुसणावि एमेव ॥८९८॥
इह नमस्कारस्य प्रतिपद्यमानकाः कदाचिद्भवन्ति कदाचिन्न, यदापि भवंति तदापि जघन्यत एको द्वौ वा, उत्कर्षतः सूक्ष्मक्षेत्रपल्योपमस्य असख्येयभागे यावन्त आकाशप्रदेशास्तावत्प्रमाणाः, “पलियमसंखेजइमो पडिवन्नो'त्ति पल्यो-2 पमस्य-सूक्ष्मक्षेत्रपल्योपमस्य असङ्ख्येयो भागः, पूर्वप्रतिपन्नाः जघन्यतः सूक्ष्मक्षेत्रपल्योपमासण्येयभागप्रदेशप्रमाणाः,18 है उत्कर्षतोऽप्येतावत्प्रमाणा एव, नवरं जघन्यपदादुत्कृष्टपदमधिकमवसातव्यमिति द्वारम् ॥ क्षेत्रद्वारमाह-'खेत्त लोगस्सेहा त्यादि, क्षेत्रमधिकृत्य चिन्तायां लोकस्य सप्तसु चतुर्दशभागेषु भवेन्नमस्कारः, इयमूर्ध्वलोकमधिकृत्य चिन्ता, अधोलोक
~105