________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
श्रीआव श्यकमलयगिरिय
वृत्तौ नम
स्कारे
॥ ४८९ ॥
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ ८९१-८९२ ], वि० भा० गाथा [-] भाष्यं [१५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
द्विविधं - जीवरूपमजीवरूपं च, जीवरूपं जिनादि अजीवरूपं तत्प्रतिमादि, जीवाजीवपदाभ्यां चैकवचनबहुवचनाभ्यामष्टौ भङ्गाः, तद्यथा - जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्याजीवस्य च ५ जीवस्याजीवानां च ६ जीवानाम. जीवस्य च ७ जीवानामजीवानां च ८, अत्रोदाहरणानि - 'जीवस्स सो जिणस्स उ अज्जीवस्स उ जिनिंदपडिमाए । जीवाण जईणंप व अजीवाणं तु पडिमाणं ||१|| जीवस्साजीवरस य जइणो विस्स वेगतो समयं । जीवस्साजीवाण य जइणो पडिमाण वेगस्थ ||२|| जीवाणमजीवस्त य जईण बिंबस्स वेगतो समयं । जीवाणमजीवाण य जईण परिमाण वेगत्थ ॥ २ ॥ ] ननु प्राकू सर्वनयमताभिप्रायेणेदमुक्तं- 'जीवो नमस्कारः' केवलं केषांचिन्नयानामभिप्रायेण सामान्येन जीवः अपरेषां नमस्कारक्रियापरिणतः, अत्र तु विपरीतार्थकथनमिति कथं न विरोधः १, नैष दोषः, नमस्कारो हि प्रागुक्तयुक्तिभिः सर्वनयमताभिप्रायेण जीव एव, जीवादन्यस्य नमस्कारक्रियाकर्तृत्वायोगात्, केवलं स जीवकर्तृकोऽपि सन् कस्यावुपयोगद्वारेणाभवतीति स्वामित्व चिन्तामात्रमत्र क्रियते, ततो न कश्चिद्दोषः, आह च भाष्यकृत् -"जीवोत्ति नमोक्कारो नणु समयं कहं पुणो भेओ ! । इह जीवस्सेव सतो भन्नइ सामित्तचितेयं ॥ १ ॥” सङ्ग्रहनयस्तु सामान्यमात्रग्राही, अत एव अयं स्वः अयं परः अयं जीवः अथमजीव इति विशेषणनिरपेक्षो नमस्कारं नमः सामान्यमात्रमेकस्य स्वामिमात्रस्य जीवाजीव विशेषणरहि तस्याभिमन्यते, न बहूनां नापि बहुप्रभेदान्नमस्कारान्, न खलु स जीवस्यायं नमस्कारोऽयमजीवस्यायं स्वस्थ अयं परस्येति स्वामिभेदान् कर्तृमेदान् वा नमस्कारस्यानुमन्यते, सामान्यमात्राक्षेपात् उक्तं च- "सामन्नमेत्तगाही सपर जियेयरविसेसणोऽभिन्नो । न य भेयमिच्छइ सया स नमोसामन्नमेत्तस्स ॥ १ ॥" अथवा स सङ्ग्रहनयः सर्ववस्तूनां सर्वेषामपि च
Por Private & Personal Use Only
100~
षट्पदायां कस्यद्वारं
॥ ४८९ ॥