________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्ति भाग-३
अध्ययनं [-], निर्युक्तिः [ ६४० ], वि०भा०गाथा [-], भाष्यं [ १३२...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
आवश्यके
समवसरणे
नैरन्तर्येणाम्यासस्तद्रूपा भावना वेदितव्या, तस्या अपि रागादिप्रतिपक्षत्वात्, नहि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासव्याश्रीमलय-पृतमनस्कस्य स्त्रीशरीररामणीकादिविषयः चेतःप्रवृत्तिमातनोति, तथानुपलम्भात्, यदप्युक्तं 'किञ्च - रागादय आत्मनो व्यतिरिक्ता वा भवेयुरव्यतिरिक्ता वा' इत्यादि, तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात् केवल भेदाभेदपक्षे धर्म्मधम्मिभावानुपपत्तेः तथाहि धर्म्मधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःस्वभावतापत्तिः, स्वभाव॥ ३३६ ॥ स्यापि धर्मत्वात्, तस्य च ततोऽन्यत्वात्, स्वः भावः स्वभावः स्वस्यैव चात्मीया सत्ता, नतु तदर्थान्तरं धर्म्मरूपं, ततो न निःस्वभावतापत्तिरिति चेत् न, इत्थं स्वरूपसत्ताभ्युपगमे तदपरसत्तासामान्ययोगकल्पनावैयर्थ्यप्रसङ्गात्, अपिचज्ञेयत्वादिभिर्धम्मैरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, 'न ह्मज्ञेयस्वभावं ज्ञातुं शक्यते' इति न्यायात्, तथा च तदभा वप्रसङ्गः कदाचिदप्यवगमाभावात्, तथापि तत्सत्त्वाम्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् अनवगतस्य षष्ठभूतादेर्भावापत्तेः एवं च धर्म्यभावे धर्माणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः, नहि धर्माधाररहिताः कापि धर्माः सम्भवन्तीति, अन्यच्च – परस्परमपि तेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यभ्युपगमेऽपि सत्त्वाद्यननुवेधात् कथं भावाम्युपगमः १, तदन्यसत्त्वादिधर्माभ्युपगमे च धर्मित्वप्रसक्तिरनवस्थावत्ता च तन्नैकान्तभेदपक्षे धमिधर्म्मभावो|पपत्तिः, नाप्येकान्ताभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्ममात्रं वा स्यात् धर्मिमात्रं वा, अन्यथैकान्त भेदायोगात्, अन्यतराभावे चान्यतरस्याभावः, परस्परनान्तरीयकत्वात्, धर्मानन्तरीयको हि धम्मीं धर्म्मिनान्तरीयकाच धर्माः, ततः कथमेकस्वाभावेऽपरस्वावस्थानमिति, कल्पितो धर्म्मधम्मिभावस्ततो न दूषणमिति चेत्, तर्हि वस्त्वभावप्रसङ्गः, नहि
For Pivate & Personal Use Only
~88~
प्रभासः
निर्वाण
सिद्धिः
॥ ३३६ ।