________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-३ अध्ययनं [-], नियुक्ति: [६४०], विभा गाथा [-], भाष्यं [१३२...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
धर्माधम्मिस्वभावरहितं किञ्चिद्धस्त्वस्ति, धर्माधम्मिभावश्च कल्पित इति तदभावप्रसङ्गा, धर्मा एव कल्पिता न धम्मी तत्कथमभावप्रसङ्ग इति चेन्न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमाद्, तदभावे धम्मिणो:प्यभावापत्तेः, अथ तदेवैकं स्वलक्षणं सकलसजातीयव्यावृत्त्येकस्वभावं धम्मि विजातीयव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धर्माः, ततो न कश्चिद्दोषः, तदप्ययुक्तम् , एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्के, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात्, नहि येनैव स्वभावेन घटादू व्यावर्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य पटरूपताप्रसकेः, तथाहि-घटाद् व्यावर्त्तते पटो घटव्यावृत्तिस्वभावतया, स्तम्भादपि चेत् घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटस्वरूपताप्रसकिः, अन्यथा ततस्तत्स्वभावतया तव्यावृत्त्ययोगात् , तस्मात् यतो व्यावर्त्तते |
यत् तत्तद्द्यावृचिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, ते च नैकान्तेन धर्मिणो भिन्नास्तदभावप्रसङ्गात् , तथा हीच तदवस्थ एव पूर्वोको दोषः, तस्माद्भिन्नाभिन्नाः, भेदाभेदोऽपि धर्मधम्मिणोः कथमिति चेत्, उच्यते, इह यद्यपि
तादात्म्येन धर्मिणा धर्माः सर्वे लोलीभावेन ब्याधास्तथाऽप्ययं धर्मी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानुवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वात्
अभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति सम्बन्धानुपपत्तिः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्यानभ्युपगमा.सू.५० माद, नापि दोषक्षये तदात्मनोऽपि क्षयः, केवळाभेदस्यानभ्युपगमादिति न काचित् शतिः ॥
दीप अनुक्रम
Jantainment
~89~