________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्ति भाग-३
अध्ययनं [-],
निर्युक्तिः [ ६४० ], वि० भा० गाथा [-], भाष्यं [ १३२...], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
wer: पातनिका व्याख्या पूर्ववत् ।
किं मन्त्रे निवाणं अत्थी नत्थित्ति संसयो तुज्झ । बेयपयाण य अत्यं न याणसी तेसिमो अत्थो । ६४० ।। किं निर्वाणमस्ति किंवा नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशवस्तव विरुद्ध वेदपदश्रुतिनिबन्धनः, तानि च वेदपदाम्यमूनि 'जरामर्ये वा एतत्सर्व यदग्निहोत्रं' तथा 'सैषा गुहा दुरवगाहा' तथा 'द्वे ब्रह्मणी परमपरं च, तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्मेति तेषां चायमर्थस्तव चेतसि वर्त्तते यदेतदग्निहोत्रं तत् जरामर्यमेव-यावज्जीवं कर्त्तव्यमिति, अग्निहोत्रक्रिया च भूतवधहेतुत्वात् सत्रलरूपा, सा च स्वर्गफलैब स्यात्, नापवर्गफला, यात्रजीवमिति धोके कालान्तरं नास्ति यत्रापवर्गहेतुभूतक्रियान्तरारम्भः स्वात्, तस्मात्साधनाभावात् मोक्षाभावः, तदेवममूनि किल वेदपदानि मोक्षाभावप्रतिपादकानि शेषाणि तु तदस्तित्वसूचकानि, यतो गुहान्त्र मुक्तिरूपा, सा च संसाराभिनन्दिना दुरबगाहा— दुष्प्रवेशा, तथा परं ब्रह्म सत्यं - मोक्षः, अनन्तरं तु ज्ञानमिति, अमूनि मोक्षास्तित्वप्रतिपादकानीति तब संशयः, तथा सौम्य । त्वमित्थं मन्यसे- संसारभवो मोक्षः, संसारश्च रागादिनिबन्धनः, रागादीनां चात्यन्तिकः क्षयोऽनुपपन्नः, तथाहि - रागादयो जन्तोरनादिमन्तो, यच्चानादिमत् न तद्विनाशमाविशति, तथा प्रमाणेन प्रतीतेः तच्च प्रमाणमिदं यद् अनादिमत् न तद्विनाशमाविशति, यथाऽऽकाशम्, अनादिमन्तश्च रागादय आत्मनो व्यतिरिक्ता वा भवेयुरव्यतिरिक्ता वा १, व्यतिरेके सर्वेषां वीतरागत्वप्रसङ्गः, रागादिभ्यो व्यतिरिक्तत्वात्, विवक्षितपुरुषवत्, अथाव्यतिरिक्तास्ततस्तत्प्रक्षये आत्मनोऽपि क्षयप्रसङ्गः, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत्, तथा च कुतस्तस्य वस्तुतो मोक्ष १, तस्यैवाभावादिति, तत्र
For Private & Personal Use Only
~85~
anelibrary.org