________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -, नियुक्ति: [६००], विभा गाथा [-], भाष्यं [१२६], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
न पुनरत्यन्तासतश्चैतन्यस्योत्पादनार्थ, तथाऽनभ्युपममात्,दोषकृताश्च विकारा मृतावस्थायां स्वयमेव निवृत्ताः, ज्वरादेरदर्शनात्, ततः किं वैद्यौपधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गा, अपि च-कश्चिद्दोषाणामुपशमेऽप्यकरमान्धियते, कश्चिञ्चातिदोषदुष्टत्वेऽपि जीवति, तदेतद्वन्मते कथमुपपत्तिमर्हति !, तथा च केचिहुवते-'दोषस्योपशमेऽप्यस्ति, मरणं कस्यचित् पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते ॥ १॥ अर्हतां तु शासने याबद् आयुःकर्म विजृम्भते तावद् दोषैरतिपीडितोऽपि जीवति, आयुःकर्मक्षये च दोषाणामधाकृतावपि वियते, तन्न देहमात्रकारणं संवेदनं, अन्यच्च-देहः कारणं संवेदनख सहकारिभूतं वा उपादानभूतं वा ।, यदि सहकारिभूतं तदिष्यत एव, देहस्यापि क्षयोपशमे हेतुतया | कथंचिद्विज्ञानहेतुत्वाम्युपगमात् , अथोपादानभूतं तदयुक्त, उपादानं हि तत् तस्य यद्विकारेण यस्य विकारो, यथा मृद्81 घटस्य, न च देहविकारेणैव विकारः संवेदनस्य, देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात्, न तद् देह उपादानं संवेदनस्य, तथा च वदन्त्युपादानलक्षणमपरे-"अविकृत्य हि यद् वस्तु, यः पदार्थों विकायते । उपादानं न तत्तस्य, युक्तं गोगवयादिवत् ॥१॥" एतेन यदुच्यते-मातापितॄचैतन्यं सुतचैतन्यस्योपादानमिति, तदपि प्रतिक्षितं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात्, अन्यच्च-यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं, यथा मृदो घटा, मातापितृचैतन्यं च मुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितॄचैतन्यादभेदेन व्यवतिष्ठते, तस्माद्
यत्किश्चिदेतत् , तन्न भूतधर्मों भूतकार्य वा चैतन्यं, किं त्वात्मनो गुण इति, तद्गुणस्य प्रत्यक्षसिद्धत्वात्प्रत्यक्षसिद्ध मा.स.पीआरमा, अनुमानसिद्धब, तवानुमानमिदं-रूपादीन्द्रियाणि विद्यमानप्रयोजकानि कर्मकरणत्वे सति प्राझमाहकरूप
दीप अनुक्रम
ACCII-94-
kock-introd
JanEconn inormation:
~53.