________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
आवश्यके श्रीमलयसमवसरणे
॥३१९॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३ अध्ययनं [ - ], निर्युक्तिः [ ६०० ], वि०भा० गाथा [-] भाष्यं [१२६], मूलं [- / गाथा-] दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
स्वात्, ये कर्म्मकरणचे सति ग्राह्यग्राहकरूपे ते विद्यमानप्रयोजके, यथा दशायःपिण्डौ, कर्मकरणरूपाणि च सन्ति | प्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि ततो विद्यमानप्रयोजकानीति, न चेन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रति तेषां कर्तृत्वमेवोपगम्येत न करणत्वं, अचेतनत्वेन स्वत उपलम्भकृत्त्वायोगात्, तथा नात्र प्रयोगः- यदचेतनं तन्नोपलब्ध यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि न चायमसिद्धो हेतुः, यतः खलु द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि, निर्वृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्याबोधरूपतया चैतन्यं प्रति धर्म्मत्वायोगात्, धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्म्मधम्मिभावो |भवेत् ततः काठिन्यजलयोरपि स भवेत्, न च भवति, तस्मादचेतनाः पुद्गलाः, तथा चोक्तम् - "बोहसभावममुत्तं विसयपरिच्छेयगं च चेयनं । चिवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥ १ ॥ ता धम्मिधम्मभावो कहमेएसिं अणन्भुवगमे य । अणुरुवत्ताभावे काठिन्नजलाण किं न भवे १ ॥ २ ॥ ( धर्मसं. ५०-५१ ) ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणं करणभाव एव, न कर्त्तृभाव इति स्थितम् । अथवेदमनुमानं - सभोक्तृकमिदं शरीरं भोग्यत्वात्, स्थालस्थितादनवत्, भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात्, द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धः, प्रतिबन्धसिद्धिर्दृष्टान्ते प्रत्यक्षप्रमाणसिद्धेति नोचलिङ्गलिङ्गिसम्बधाग्रहरूपदोषावकाशः, आगमगम्योऽप्येष जीवः, तथा चागमः - "अणिदिगुणं जीवं, दुत्नेयं मंसचक्खुणा । सिद्धा पस्संति सवन्नू, नाणसिद्धा य साहूणो ॥ १॥" | (द०म० ५ - ३४ मा . ) अन्त्र ज्ञानसिद्धाः साधवो भवस्थ केवलिनः, शेषं सुगमं, न चागमानां परस्परविरुद्धार्थतया सर्वेषामध्य
For Private & Personal Use Only
~54~
जीवसिद्धी
प्रथमगण
धरः
॥३१९॥