________________
आगम (४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
H
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३ अध्ययनं [ - ], निर्युक्तिः [ ६०० ], वि०भा० गाथा [-] भाष्यं [१२६], मूलं [- / गाथा-] दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
त्वात्तदभावे न भवतीति चेत्, न, प्राणापानयोर्ज्ञानहेतुत्वायोगात्, ज्ञानादेव च तयोरपि प्रवृत्तेः तथाहि यदि मन्दी प्राणापानौ निस्रष्टुमिष्येते ततो मन्दो भवतो, दीर्घौ चेत्तर्हि दीर्घाविति, यदि पुनर्द्देहमात्रनिवृत्तौ प्राणापानौ प्राणापान| निमित्तं च विज्ञानं तर्हि नेत्यमिच्छावशात् प्राणापानप्रवर्त्तनं भवेत्, नहि देहमात्रनिमित्ता गौरता श्यामता वा इच्छावशात्प्रवर्त्तमाना दृष्टा, प्राणापाननिमित्तं च यदि वो विज्ञानं ततः प्राणापाननिर्शसातिशयसंभवे ज्ञानस्यापि निसातिशयो | स्याताम्, अवश्यं हि कारणे परिहीयमाने अभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति, यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान्, अन्यथा कारणमेव तन स्यात्, न च भवतः प्राणापाननिर्हासातिशयसंभवे विज्ञानस्यापि निसातिशयौ, विपर्ययस्यापि भावात्, मरणावस्थायां प्राणापानातिशयसम्भवेऽपि विज्ञानस्य ह्रासदर्शनात्, स्थादेतत्तदानीं वातपित्तादिभिर्दोषदेहस्य विगुणीकृतत्वात् न प्राणापानातिशयसंभवेऽपि ज्ञानस्यातिशयसम्भवोऽत एव मृतावस्थायामपि न चैतन्यं देहस्य विगुणीकृतत्वात्, तदसमीचीनतरमेव, एवं सति मृतस्यापि पुनरुज्जीवनप्रसकेः, तथाहि-मृतस्य दोषाः समीभवन्ति, समीभवनं च दोषाणामवसीयते ज्वरादिविकारादर्शनात्, समत्वं चारोग्यं, तथा चाहुवृद्धाः - " तेषां समत्वमारोग्यं, क्षयवृद्धी विपर्यय" इति, आरोग्यलाभ त्वे देहस्य पुनरुज्जीवनं भवेत्, अन्यथा देहः कारणमेव चेतसो न स्यात्, तद्विकारभावाभावाननुविधानात्, एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत् स्यादेतद्-अयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि दोषा देहस्य वैगुण्यमाधाय निवृत्तास्तथापि न तत्कृतस्य वैगुण्यस्य निवृत्तिः, नहि दहनकृतो विकारः काठे दहननिवृत्तौ निवर्त्तमानो दृष्टः, तदयुक्तम्, इह हि कचि
Education International
For Private & Personal Use Only
~51~