________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
आवश्यके श्रीमलयसमवसरणे
॥ ३१७ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययनं [ - ], निर्युक्तिः [ ६०० ], वि०भा० गाथा [-] भाष्यं [१२६], मूलं [- / गाथा-] नदीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
उपलभ्यन्ते, कथं तेम्यो मनोज्ञानं भवतीति प्रतियन्ति सुधियः, आह "चेतयन्तो न दृश्यन्ते, केशश्मश्रुनखादयः । ततस्तेभ्यो मनोज्ञानं भवतीत्यतिसाहसम् ॥ १ ॥ " अपिध - यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततस्तदुच्छेदे मूलत एव न स्यात्, तदुपघाते चोपहतं भवेत्, नच भवति, तस्मान्नायं पक्षः क्षोदक्षमः । किश-मनो| ज्ञानस्य सूक्ष्मार्थमेतृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि —तदेव शास्त्रमीहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मतरार्थावबोध उल्लसति स्मृतिपाटवं चापूर्वमुज्जृम्भते, एवं चैकशास्त्राभ्यासतः सूक्ष्मार्थमेतृत्वशक्ती पाटवशक्ती चोपजातायामन्येष्वपि शास्त्रान्तरेषु अनायासेनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति, तदेवमभ्यासहेतुकाः सूक्ष्मार्थभेत्तृत्वादयो मनोज्ञानस्य विशेषा दृष्टाः, अथ च कस्यचिदिदं जन्माभ्यासव्यतिरेकेणापि दृश्यते, ततोऽवश्यं पारलोकिकाभ्यासहेतुका इति प्रतिपत्तव्यं, कारणेन सह कार्यस्यान्यथानुपपन्नत्वप्रतिबन्धतोऽदृष्ट तत्कारणस्यापि तत्कार्यत्वविनिश्चितेः, ततः सिद्धः परलोकयायी जीवः सिद्धे च तस्मिन् परलोकया| यिनि यदि कथञ्चिदुपकारी चाक्षुषादेर्विज्ञानस्य देहो भवेत् भवतु न कश्चिद्दोषः क्षयोपशमहेतुतया देहस्यापि कथशिदुपकारित्वाभ्युपगमात् न चैतावता तन्निवृत्तौ सर्वथा तन्निवृत्तिः, नहि वहेरासादितविशेषो घटो वह्निनिवृत्ती समूलोच्छेदं निवर्त्तते, केवल विशेष एव कञ्चनापि, यथा सुवर्णद्रवता, एवमिहापि देहनिवृत्ती ज्ञानविशेष एव कोऽपि तत्प्र तिबद्धो निवर्त्ततां न पुनः समूलं ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेव विज्ञानमिष्येत देहनिवृत्ती च निवृत्तिमत्तर्हि | देहस्य भस्मावस्थायां मा भूत्, देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मान्न भवति १, प्राणापानयोरपि हेतु
|
Education International
For Private & Personal Use Only
~50~
जीवसि - द्भिः
॥ ३१७ ॥
wwww.janbrary.org