________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
Jain Education
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययनं [ - ], निर्युक्तिः [ ६०० ], वि०भा० गाथा [-] भाष्यं [१२६], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-वृ
दनं देहाश्रितमपि कथचिद्भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात् वसु मानसं तत्कथं 1, नहि तद्देहकार्य - मुपपत्तिमत्, युक्त्ययोगात्, तथाहि-- तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाद्वा समुत्पद्येत अनिन्द्रियरूपाडा केशनखादिलक्षणात् ?, तत्र न तावदाद्यः पक्षः, इन्द्रियरूपात् तदुत्पत्ताविन्द्रियबुद्धिवद् वर्तमानार्थग्रहणप्रसक्तेः, इन्द्रियं हि | वार्त्तमानिक एवार्थे व्याप्रियते, तत्सामर्थ्यादुपजायमानं मानसमपि ज्ञानं पञ्चेन्द्रियज्ञानमिव वर्चमानार्थ ग्रहणपर्यवसि तसत्ताकमेव भवेत्, अथ यदा चक्षू रूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयति न शेषकालं ततस्तद्रूपविज्ञानं वर्त्तमानार्थविषयं वर्त्तमान एवार्थे चक्षुषो व्यापारात्, रूपविष व व्यावृत्यभावे च मनोज्ञानं, ततो न तत्प्रतिनियतकालविषयं एवं शेषेष्वपि इन्द्रियेषु वाच्यं ततः कथमिव मनोज्ञानस्य वर्त्तमानार्थग्रहणप्रसक्तिः १, तदसाधीयो, यत इन्द्रियाश्रितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते इन्द्रियाणां च व्यापारः प्रतिनियते एवं वार्त्तमानिके स्वस्वविषये, मनोज्ञानमपि यदीन्द्रियव्यापाराश्रितं तत ऐन्द्रियज्ञानमिव वार्त्तमानि कार्थग्राहकमेव भवेत्, अन्यथा इन्द्रियाश्रितनेत्र तन्न स्यात्, तथा च केचिलठन्ति - " अक्षव्यापारमाश्रित्य भवदक्ष जमिध्यते । तद्व्यापारो न सत्रेति, कथमभवं भवेत् ? ॥१॥" अथानिन्द्रियरूपादिति पक्षस्तदप्ययुक्तः, तस्याचेतनत्वात्, नम्वचेतनत्वादिति कोऽर्थः ?, यदि | इन्द्रियविज्ञानरहितत्वादिति, तदिष्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोविज्ञानं तु कस्मात् न भवति, मनोविज्ञानं नोत्पादयतीत्य चेतनत्वं तदा तदेव विचार्यमाणमिति प्रतिज्ञार्थैकदेशासिद्धो हेतु:, तदध्यवत्, अचेतनत्वादिति किमुक्कं भवति १-स्वनिमित्तविज्ञानैः सुरचि पतयाऽनुपलब्धेः स्पर्शादयो हि स्वस्वनिमित्तविज्ञानः स्फुरचिनः ।
For Private & Personal Use Only
~49~
janelibrary.org