________________
आगम (४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययनं [ - ], निर्युक्तिः [ ६०० ], वि०भा० गाथा [-] भाष्यं [ १२६], मूलं [- /गाथा ] नदीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
प्राणिमयं भवति, परिणतिविशेषसद्भावाभावादिति चेत्, ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति १ सोऽपि हि भूतमात्रनिमित्तक एव, ततः कथं तस्यापि कचित्कदाचिद्भावः १, अन्यच स किंरूपः परिणतिविशेष इति वाच्यम् १, कठिनत्वादिरूप इति चेत्, तथाहि — काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानास्ततो यत्र कठिनत्वा| दिविशेषस्तत्प्राणिमयं न शेषमिति, सदस्यसत्, व्यभिचारदर्शनात्, तथाहि - अविशिष्टेऽपि कठिनत्वादिविशेषे कचिबति, कचित्कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च संमूच्छिमा जायन्ते किञ्च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिनो दृश्यन्ते, तथा गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽपरे पीतकाया अन्ये | विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नं, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुर्न च भवन्ति, तस्मादात्मान एव तत्तत्कर्मवशात् तथा तथोत्पद्यन्ते इति ॥ स्यादेतत्-आगच्छन् गच्छत् वा आत्मा नोपलभ्यते, केवलं देहे सति संवेदनगुपलभामहे, देहाभावे च भस्मावस्थायां न, तस्मान्नात्मा, किन्तु संवेदनमात्रमेवैकं, तथ्य देहकार्य देह एव च समाश्रितं, कुड्ये विश्ववत्, नहि चित्रं कुद्ध्यविरहितमवतिष्ठते, नापि कुड्यान्तरं सङ्कामति, आगतं वा कुख्यान्तरात्, किंतु कुड्य एवोत्पन्नं कुरुप एव च विलीयते, एवं संवेदनमपि तदप्यसत्, आत्मा हि स्वरूपेणामूर्त्तः, आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयः, तदुक्तमन्यैरपि - " अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलभ्यते । निष्क्रामन् प्रविशन् वापि, नाभावोऽनीक्षणादपि ॥ १ ॥” तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् | गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते, तथाहि-- कृमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रति
Jain Education International
For Pivate & Personal Use Only
~47~
wwww.janbrary.org