________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -, नियुक्ति: [६००], विभा गाथा [-], भाष्यं [१२६], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
वि
प्रत
सत्राक
दीप अनुक्रम
आवश्यके शाणामान्तरं तदयुक्त, परिणामान्तरस्यापि भूतस्वभावतया भूतवत् व्यञ्जकत्वस्योपपत्ते वारकत्वस्य, अथान्यदेव भूताति-I5जीवसिश्रीमलय-1 | रिक्तं किञ्चित् तदतीवासमीचीन, भूतातिरिक्ताभ्युपगमे 'चत्वार्येव पृथिव्यादीनि भूतानि तत्च'मिति तत्त्वसङ्ख्याव्याघात-1 समवसरणेशप्रसङ्गात् , अपि च-इदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा?, न तावत्प्रत्येकमनुपलम्भात्, नहि प्रतिपरमाणु
संवेदनमुपलभ्यते, अपि च यदि प्रतिपरमाणु संवेदनं भवेत्तर्हि पुरुषसहनचैतन्यवृन्दमिव परस्परं भिन्नस्वभावमिति नैकरूपं 5 ॥३१५॥ | भवेत् , अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमीत्येवं सकलशरीराधिष्ठानादेकरूपतयाऽनुभवात्, अथ समुद्र
दायस्य धर्मस्तदप्यसत् , प्रत्येकमभावात् , नहि प्रत्येकं यदसचत्समुदाये भवति, यथा रेणुषु तैलं, स्यादेतद्-यवत् मद्यानेषु प्रत्यकं मदशकिरदृष्टापि सगुदायऽपि भवन्ती दृश्यते तद्वचैतन्यमपि भविष्यति को दोषः, तदसम्यक्, प्रत्ये कमपि मद्यानेषु मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात् , तथाहि-दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पेषु च मनाक् विकलतोत्पादकत्वादि, न चैवं चैतन्यं सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते, ततः कथं समुदाये तद्भवितुमर्हति , मा प्रापत्सर्वत्र
सर्वस्य भावप्रसक्त्याऽतिप्रसङ्गः, किच-यदि चैतन्यं भूतधर्मत्वेन प्रतिपक्ष ततोऽवश्यमस्यानुरूपो धर्मी प्रतिपत्तव्या, आनु. * रूप्याभावे जतुकाठिन्ययोरिव परस्परं धर्मधमिभावानुपपत्ते, न च चैतन्यं भूतानुरूपो धर्मी, बैलक्षण्यात्, तथाहि
चैतन्य बोधस्वरूपममूर्त च, भूतानि च तद्विलक्षणानि, ततः कथं परस्परमेषां धर्मधर्मिभावसंभवः १, न च चैतन्यमिदं दभूतानां कार्य, अत्यन्तविलक्षणतया कार्यकारणभावस्याप्ययोगात् , तथा चोक्तम्-"काठिन्याबोधरूपाणि, भूताम्यध्यक्ष-18
| सिद्धितःचेतना च न तद्रूपा, सा कथं तत्फलं भवेत् ॥१॥" अपि च यदि भूतकार्य चैतन्यं तर्हि किं न सकलमपि जगत्
62*
॥३१५॥
Jan
i
n
!
Liainalibrary.org
~46~