________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
H
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययनं [ - ], निर्युक्तिः [ ६०० ], वि०भा० गाथा [-] भाष्यं [१२६], मूलं [- / गाथा-] रत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| साम्प्रतविज्ञानोपयोगविनितत्वात्, अथवा एवं व्याख्या - विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यतीत्येतन्न, यतः प्रेत्यसंज्ञाऽस्ति-परलोक संज्ञास्ति ॥ यदप्युक्तं - नासौ प्रत्यक्षेण परिगृह्यते इति तदभ्यसमीचीनम्, आत्मनः प्रत्यक्षसिद्धत्वात्, तद्गुणस्य ज्ञानस्य स्वसंवेदनप्रमाणसिद्धत्वात्, तथाहि स्वसंविदिता एवावग्रहेहापायादयः उत्पद्यन्ते व्ययन्ते वा, ततस्तद्गुणस्य स्वसंविदितत्वात्सिद्धमात्मनः प्रत्यक्षत्वं अथ नवीथा भूतगुणश्चैतन्यं, तथा च वेदेऽप्युक्तम्, 'एतेभ्यो भूतेभ्यः समुत्थाये' त्यादि, ततः कथं ज्ञानस्य स्वसंविदितत्वे आत्मनः प्रत्यक्षत्वं ?, ज्ञानस्यात्मगुणत्वाभावात्, तदयुक्तं, भूतगु णत्वे सति पृथिव्याः काठिन्यस्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात् न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं, लोष्ठादों मृतावस्थायां चानुपलम्भात्, अथ तत्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदसम्यक्, विकल्पद्वयान विक्रमात्, | सा हि शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव ?, यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति, नहि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शत्र्यं, तथा चाहान्योऽपि - “रूपान्तरेण यदि ततदेवास्तीति मा रटीः । चैतन्यादन्यरूपस्य भावे तद्विद्यते कथम् १ ॥ १ | अथ द्वितीयः पक्षस्तर्हि चैतन्यमेव सा कथमनुपलम्भः १, आवृतत्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तचावरणं किं भूतानां विवक्षितपरिणामाभाव उत परिणामान्तरं आहोस्विदन्यदेव भूतातिरिक्तं किञ्चित् ?, तत्र न तावद्विवक्षित परिणामाभात्रः, एकान्ततुच्छरूपतया तस्यावारकत्वायोगात्, अन्यथा तस्याप्यतुच्छ रूपतया भावरूपतापत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत् 'पृधिव्यादीन्येव भूतानि तत्व' मिति वचनात् पृथिव्यादीनि च भूतानि चैतन्यस्य व्यञ्जकानि नावारकाणीति कथमावारकत्वं तत्वोपपत्तिमत् ?, अथ परि
Jain Education International
For Private & Personal Use Only
~45~
www.jamlibrary.org