________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम H
आवश्यके श्रीमलयसमवसरणे
॥३१४॥
Jain Education It
4
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३ अध्ययनं [ - ], निर्युक्तिः [ ६०० ], वि० भा० गाथा [-] भाष्यं [ १२६], मूलं [- /गाथा -] दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
नासौ प्रत्यक्षेण परिगृह्यते, अतीन्द्रियत्वात् नाप्यनुमानेन, यतस्त लिङ्गलिङ्गिसम्बन्धपूर्वकं न चात्र लिङ्गस्य लिङ्गिना सह सम्बन्धः प्रत्यक्षगम्यो, लिङ्गिनोऽतीन्द्रियत्वात्, नाप्यनुमानगम्योऽनवस्थाप्रस केः, तदपि हि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं तत्रापि चेयमेव वार्चा इत्यनवस्थानुपङ्गः । नाप्यागमगम्यः, परस्परविरुद्धार्थतया तेषामागमानां प्रमाणत्वाभावात्, | तथाहि — केचिदेवमाहुः - एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, वद्वदन्त्यवहुश्रुताः ॥ १ ॥ इत्यादि, अपरे प्राहुः "न रूपं भिक्षवः पुद्गला" इत्यादि, पुद्गले रूपं निषेधयन्ति, अमूर्त आत्मेत्यर्थः, अन्ये पुनरेवं 'अकर्त्ता निर्गुणो भोक्का' इत्यादि, अपरे एवं - "स वै अयमात्मा ज्ञानमय' इत्यादि, नचैते सर्व एव प्रमाणं, परस्परविरोधेन, एकार्थाभिधायिपरस्परविरुद्धवाक्य पुरुषव्रातवत्, अतो न विद्मः किमस्ति नास्तीत्ययं तवाभिप्रायः, तत्र वेदपदानां चार्थे न जानासि चशब्दात् युद्धिं हृदयं च, तथाहि वेदपदानामयमर्थः -- विज्ञानघन एवेति ज्ञानोपयो गदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघन', प्रतिप्रदेशभनन्तविज्ञानपर्यायसङ्घातात्मकत्वाद्वा विज्ञानघनः, एवशब्दोऽवधारणे विज्ञानघनादनन्यत्वात् विज्ञानघन एव एतेभ्यो भूतेभ्यः - छित्युदकादिभ्यः समुत्थाय ---- कयश्चिदुत्पद्येति, घटविज्ञानपरिणतो हि आत्मा घटावू भवति, तद्विज्ञानक्षयोपशमस्य तत्सापेक्षत्वाद्, अन्यथा निरालम्बमदवा तस्य मिथ्यात्वप्रसके, एवं सर्वत्र भावनीयं तत उक्तं तेभ्यः समुत्थाय कथञ्चिदुत्पद्येति, पुनस्तान्येव-भूतानि 'अनु विनश्यति' तेषु विवक्षितेषु भूतेषु व्यवहितेषु अपगतेषु वा आत्मापि तेन विज्ञानघनात्मना उपरमतेऽन्यविज्ञानात्मना उत्पद्यते, यदिवा सामान्यचैतन्यरूपतयाऽवतिष्ठते इति, न प्रेत्य संज्ञाऽस्ति न प्राकनी घटादिविज्ञानसंज्ञाऽवतिष्ठते,
For Private & Personal Use Only
~44~
जीवसि - द्धिः
॥३१४४३
janibrary.org