________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
श्रीआयश्यक मल- * य० वृत्तौ
उपोद्घाते
॥४३५॥
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [१], निर्युक्तिः [७९९], वि० भा० गाथा [-] भाष्यं [१५०...], मूलं [- / गाथा-] दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृि
परमं प्रधानं ज्येष्ठमित्येतत् ज्ञात्वा कुर्यात् बुधो विद्वान् आत्महितम् - आत्मोपकारकम् एतदेव परिपूर्ण सामायिक, किमर्थमित्याह - 'परार्थ' परो मोक्षः, तस्याप्यपरस्य परस्याभावात् तदर्थं न तु सुरलोकाद्यवात्यर्थे, अनेन निदानपरिहारमाह, परिपूर्ण सामायिक करणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते! सामाइयं सावज्जं जोगं पच्चक्खामि जावनियमं पशुवासामि दुविहं तिविद्देणे'त्येवं कुर्यात्, आह-तस्य सर्व त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोषः ?, उच्यते, प्रवृत्तकर्म्मारम्भानुमत्यनिवृत्त्या कारणसम्भव एव, तथापि तत्करणे भङ्गदोषः, तथा चाह
सति भाणिकणं विरई खलु जस्स सविआ नत्थि । सो सङ्घविरहवाई चुक्कड़ देसं च सव्वं च ॥ ७९९ ॥ ''त उपलक्षणमेतत् तत एवं द्रष्टव्यं सर्वे सावधं योगं प्रत्याख्यामि त्रिविधं त्रिविधेनेत्येवं भाणिऊण-अभिधाय विरतिः- निवृत्तिः, खलु सर्वका सर्वा नास्ति, प्रवृत्त कर्मारम्भानुमति सद्भावात् स सर्वविरतिवादी 'चुकई' इति भ्रश्यति 'देसं च सवं वे 'ति प्राकृतत्वात् पञ्चम्यर्थे द्वितीया, देशविरतेः सर्वविरतेश्च, देशविरतेरनभ्युपगमात्, सर्वविर तेरकरणात्, नन्वागमे गृहस्थस्यापि प्रत्याख्यानं त्रिविधं त्रिविधेनोकं, तथा च व्याख्याप्रज्ञप्तौ सूत्रं - 'समणोवा सगस्स णं भंते! पुवामेव थूले पाणाइवाए पच्चकुखाए भवति, से णं पच्छा पञ्चाइक्खमाणे किं कीरइ ?, गोयमा ! तीयं पडिकमइ जाव एगविहेण वा पडिक्कमइ' इति, ततः कथं गृहस्थस्य सावद्ययोगानुमतिप्रत्याख्यानप्रतिषेधः १, उच्यते, यदिदं सूत्रे गृहस्थस्यापि त्रिविधं विविधेन प्रत्याख्यानं तत् स्थूलप्राणातिपातमृषावादादिविषयं द्रष्टव्यं यथा कोऽपि सिंहसरभगजादीनां वधं कन्यादिविषयमलीकं त्रिविधं त्रिविधेन प्रत्याख्यातीति, न पुनः सामान्येन सावद्ययोगविद्ययं प्रवृत्तकर्मारम्भानुमतेरवश्यंभावात्, ततो न कश्चि
For Pivate & Personal Use Only
286~
सामायिके
कस्येति
द्वारं
॥४३५॥