________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९०], विभा गाथा ], भाष्यं [१४८...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
BACCURACKGROORKS
दीप अनुक्रम
कार्यस्य, सामग्री जनिका मते'ति वचनात् , उक्तमनुमतद्वारं, तद्भणने च न्याख्याता 'उद्देसे निदेसे य' इत्यादिका उपोद्घा-1
तनियुकिगता प्रथमद्वारगाथा ॥ सम्पति द्वितीयद्वारगाधाप्रथमावयवः किमिति द्वारं व्याख्यायते-तत्र सामायिकं नाम | ६ किं जीवः ! उताजीवः! अथोभयम् ? आहोस्विदनुभयं !, जीवत्वेऽपि किं द्रव्यमुत गुण ? इत्याशङ्कापनोदार्थमाह___आया खलु सामइ पञ्चक्खायंतओ हवइ आया । तं खलु पञ्चक्खाणं आवाए सघदवाणं ।। ७९० ॥ __आत्मा-जीवः, खलुशब्दोऽवधारणे, आत्मैव-जीव एवं सामायिकम् , एतेन प्रागुपन्यस्त शेषाजीवादिविकल्पव्युदासः, स चन सामान्येन, किन्तु प्रत्याचक्षाण:-प्रत्याख्यानं कुर्वन् , प्रत्याख्यानपरिणामे वर्तमान इति भावः, 'हवइ आया' इति स एव च प्रत्याचक्षाणः परमार्थतो भवत्यात्मा, श्रद्धानज्ञानसावद्यविनिवृत्तिरूपस्वभावावस्थितत्वात्, शेषः संसारी *
पुनरात्मैव न भवति, प्रचुरघातिकर्मपरमाणुभिस्तस्य स्वाभाविकगुणतिरस्करणात्, अत एव यथोक्कात्मप्रतिपत्त्यर्थ | ६ द्वितीयात्मग्रहणं, 'तं खलु पचक्खाणं'ति खलुशब्दः सामायिकस्य जीवपरिणतिरूपत्वज्ञापनार्थः, तत् खलु प्रत्याख्यानं
जीवपरिणतिरूपं विषयमधिकृत्य सर्वद्रव्याणामापाते-आभिमुख्येन सन्निपतने, निष्पद्यते इति वाक्यशेषः, सबंद्रव्याणां श्रद्धेयतया (शेयतया) यथायोगं प्रवृत्तिनिवृत्तिविषयतया च तद्विषयत्वात् , ननु किं सामायिकमिति स्वरूपप्रश्ने प्रक्रान्ते विषयनिरूपणमस्यान्याय्यम् , अप्रस्तुतत्वात्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वादित्यसिद्धं, तथाहि-सामायिकविषय
निरूपणं प्रस्तुतं सामायिकाङ्गत्वात्, यत् यत्सामायिकाङ्गं तत्परूपणं प्रस्तुतं, यथा सामायिकस्वात्मप्ररूपणमित्यलं विस्तसारेण ॥ तत्र यदुक्तम् 'आत्मा खलु सामायिक मिति तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह
Jan
n
a
... अथ अग्रे 'सामायिक व्याख्या-आदि आरभ्यते
~273