________________
आगम
(४०)
प्रत सूत्रांक
[H]
दीप
अनुक्रम
H
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [-]
निर्युक्तिः [७८८-७८९], वि०भा० गाथा [२६२७-२६३०], भाष्यं [ १४८...], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
श्री आववयक मल
प्रति नैगमादयो ब्रुवते - ननु ज्ञानदर्शनाभ्यामपि विना न प्रकर्षप्राप्तः सर्वसंवरलाभ उपजायते, तत्सहितस्यैव तद्भावाभ्युपगमात् ततः कथं न त्रितयं मोक्षमार्ग ? इति ऋजुसूत्रादयः प्राहुः, तदसम्यकू, वस्तुतत्त्वापरिज्ञानात् तथाहि यदि य० वृत्ती नाम न ज्ञानदर्शनाभ्यां विना यथोक्तसंवरलाभस्ततस्ते तस्य कारणं भवताम् नतु मोक्षस्य सर्वसंवरसाध्यस्य, कथं ?, उपोद्घाते + तद्भावे भाव एवेत्यन्ययानुगमाभावातू, इह यत् यस्यान्त्र्यं व्यतिरेकं वा नानुविधत्ते न तस्य तत्कारणं, यूपा कुशूलन्यस्तं बीजमङ्कुरस्य, न भवति च मोक्षः सर्वज्ञान सर्वदर्शनसम्भवेऽपि तत्कालमेवेति, अथ सतोरेव सर्वज्ञान सर्वदर्शनयोः सर्वसंवरलाभो, न तदभावे, तेन ते अपि मोक्षकारणस्य सर्वसंवरस्य कारणत्वान्मोक्षकारणमिति, तदयुक्तं, परम्परयापि ★ कारणत्वाभ्युपगमे सकलस्यापि भुवनस्य मोक्षकारणत्वप्रसक्तेः भुवनोदरवर्त्तिनां सर्वेषामपि वस्तूनां ज्ञेयश्रद्धेयमवृत्तिनिवृत्तिविषयतया ज्ञानदर्शनचारित्रोपयोगित्वात्, तथा च सति ज्ञानादित्रिके एव को भवतामा ग्रहः ?, ततो यथा न समस्तं भुवनं मोक्ष ( कारणं तद) कारणत्वादेवं ज्ञानदर्शने अपीति स्थितम् । तथा चाह भाष्यकृत् आह नणु नाणदंसण| रहियस्स न सबसंवरो दिट्ठो । तस्सहियस्सेव तओ तम्हा तिययंपि मोक्खपट्टो ||१|| (वि. २६२७) ॥ जइ तेहिं विणा नत्थित्ति संवरो वेण ताइं तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खरस ||२|| वि. २६२८ ) । अह कारणोवगारिति कारणं | तेण कारणं सर्वं । भुवणं नाणाईणं जइणो नेयाइभावेणं ॥३॥ (वि. २६२९) । अह पच्चासन्नतरं नेयरमिहोबगारगारिंपि । तो सबसंवरमयं चारितं चैव मोक्खपहो ॥४॥ (वि. २६३०)। तदेवं यत् यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं तदभिहितं भगव -वस्तु मतेन त्रीण्यपि ज्ञानादीनि सामाविकानि परस्परसापेक्षाणि मोक्षमार्गः, एकस्याप्यभावे मोक्षस्यासंभवात्, 'तस्मात्सर्वस्य
॥४२८॥
For Private & Personal Use Only
~ 272~
मोक्षमार्ग
नयानु
मतिः
॥४२८॥