SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -1, नियुक्ति: [५६१], विभा गाथा [-], भाष्यं [११७-११९], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: * ACC * प्रत सूत्रांक ** का ४ीजोइसियभवणवंतरदेवीओ दक्षिणेण पविसे । चिट्ठति दक्षिणावरविसिम्मि तिगुणं जिणं का ॥११७॥ अवरेण भवणवासीवंतरजोइससुरा य अतिगंतुं । अवरुत्तरदिसिभाए चिट्ठति जिर्ण नमंसित्ता ॥ ११८॥ । समहिंदा कप्पसुरा राया नरनारिओ उईणेणं । पविसित्ता पुडुत्तरदिसीह चिट्ठति पंजलिया ॥ ११९॥ । इक्किकाइ दिसाए तिगं तिगं होइ संनिविडं तु । आइचरिमे विमिस्सा थीपुरिसा सेस पत्ते ॥ ५६१॥ संयता वैमानिकस्त्रियः संयत्यः पूर्वेण-पूर्वद्वारेण प्रविश्य वीरं प्रदक्षिणं कृत्वा पूर्वदक्षिणे दिग्भागे तिष्ठन्ति । ज्योतिकभवनव्यन्तरदेव्यो दक्षिणेन द्वारेण प्रविश्य त्रिगुणं प्रदक्षिणं जिनं कृत्वा दक्षिणापरदिग्भागे पूर्वक्रमेण तिष्ठन्ति । अपरेण-पश्चिमद्वारेण भवनवासिनो व्यन्तरा ज्योतिष्कसुराश्च अतिगत्य-प्रविश्य जिनं नमस्कृत्यापरोत्तरदिग्भागे, वायव्यटाकोणे इत्यर्थः, पूर्वक्रमेण तिष्ठन्ति ॥समहेन्द्रा-महर्द्धिभिरिन्द्रः सहिताः कल्पसुरा:-कल्पोपपत्नदेवाः राजानः नराः सामा-14 न्यपुरुषा नार्यश्च उदीच्येन-उत्तरेण द्वारेण प्रविश्य भगवन्तं प्रणम्य प्राञ्जलयः पूर्वोत्तरदिग्भागे तिष्ठन्ति । अभिहितार्थोवापसमाह-एकैकस्यां पूर्वदक्षिणादिकायां दिशि त्रिकं त्रिकं भवति सन्निविष्टं, तद्यथा-पूर्वदक्षिणस्यां संयतवैमानिकदेवी श्रमणीरूपं, दक्षिणापरवां भवनवासिज्योतिष्कन्यन्तरदेवीरूपं, अपरोत्तरस्यां भवनपतिज्योतिष्कव्यन्तरदेवरूपं, उत्तरपूर्वस्यां वैमानिकमनुष्यमनुष्यत्रीरूपमिति, आदिमे च त्रिके-पूर्वदक्षिणदिग्गते परमे च त्रिके-पूर्वोत्तरदिग्गत विमिश्रा भवन्ति, स्त्रियः पुरुषाश्च तिष्ठन्तीति भावः, शेषे-त्रिकद्ये प्रत्येकं भवति, अपरादक्षिण दिग्भागे केवला:स्थिय एव | अपरोत्तरे च दिग्भागे केवला: पुरुषा एवेति भावार्थः। तेषां चत्वं स्थितानां देवनराणामियं मयादा, **** दीप अनुक्रम ***** JanEthiconn imaMaiind ~25~
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy