SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३ अध्ययनं [-], निर्युक्तिः [७५९], वि०भा०गाथा [२२५२] भाष्यं [१३७.] मूलं [- / गाथा-] नदीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः | नुशासनोपदर्शितयथोक्त लक्षणोपेतानि इति भावः तानि च तानि पदानि च सत्यपदानि तेषां विद्या-परिज्ञानं कालकारकादिभेदतोऽवगमस्तां समाश्रिताः, तद्वशादर्थमेदमभ्युपगतवन्त इत्यर्थः । सम्प्रति एतेषामेव नवानां प्रभेदसङ्ख्याप्रदर्शनार्थमाह एकेको अ सपविहो सत्त नयसया हवंति एवं तु । अन्नोऽवि अ आएसो पंच सया हुंति उ नयाणं ॥ ७५९ ॥ नया - मूलभेदापेक्षया यथोक्तरूपा नैगमादयः सप्त, एकैकश्च प्रभेदतः शतविधः - शतभेदः, ततः सर्वप्रभेदगणनया सप्त नयशतानि भवन्ति, अपिशब्दात् पट् चत्वारि द्वे वा शते, तत्र षट् शतान्येवम्-नैगमः सामान्यग्राही सङ्घद्दे प्रविष्टो, विशेपग्राही व्यवहारे, उक्तं च- "जो सामन्नग्गाही स नेगमो संगहं गतो अहवा । इयरो ववहारमितो जो तेण समाणनि| देखो ॥ १ ॥” (वि. १९) तत् षडेव मूलनयाः, एकैकश्च प्रभेदतः शतभेद इति षट् शतानि, अपरादेशः सग्रहव्यवहारर्जुसूत्रशब्दा इति चत्वार एवं मूलनया, एकैकश्च शतविध इति चत्वारि शतानि, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात् शब्दादीनां तु पर्यायास्तिकत्वात् तयोश्च प्रत्येकं शतभेदत्वात्, अथवा यावन्तो वचनपथास्तावन्तो नया इत्यसङ्ख्याताः प्रतिपसन्याः । एएहिं दिट्टिवाए परूवणा सुत्तअत्थकहणा य । इह पुण अणन्भुवगमो अहिगारो तीहिं ओसन्नं ॥ १६० ॥ एतैः - नैगमादिभिर्नयैः सप्रभेदैर्दृष्टिवादे सर्ववस्तूनां प्ररूपणा, क्रियते इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानविलङ्घनात् समुच्चयोऽनर्थक इति, न तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षणात्, तद्व्यतिरेकेणापि च For Private & Personal Use Only ••• अत्र मूल संपादने यत् गाथा-क्रम || १६० || मुद्रितं तत् मुद्रण-स्खलना मात्र, इह गाथा -क्रम || ७६० || एव वर्तते 179~
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy